________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
॥४६९॥
SASR5555
|यां गाथां श्रुत्वा इत्यध्याहारः, यां धर्माभिधायिनी सूत्रपद्धर्ति श्रुत्वा, भिक्षवः साधवः शीलगुणोपपेताः | संत इह जिनप्रवचने यतंते मुनयः, शीलं चारित्रं, गुणो ज्ञानं, शीलं च गुणश्च शीलगुणो, ताभ्यामुपेताः
शीलगुणोपपेताःक्रियाज्ञानसहिताः संतोऽर्हन्मते स्थिरा भवंतीत्यर्थः. तां गाथां श्रुत्वाहमपि श्रमणस्तपसि | निरतो जातोऽस्मि, न तु दुःखात्साधुः संजातोऽस्मीति भावः ॥ १२॥
॥ मूलम् ॥-उच्चोदए महु कक्के य बंभे । पवेइया आवसहा य रम्मा ॥ इमं गिहं चित्त धण-दू प्पभूयं । पसाहि पंचालगुणोववेयं ॥ १३ ॥ व्याख्या-अथ ब्रह्मदत्तः पुनः साधुं निमंत्रयति, पूर्वनाम्ना संबोधनं कृत्वा वदति, हे चित्र! त्वमिममिदं प्रभूतधनं गृहं, प्रचुरधनसहितं गृहं प्रसाधि प्रतिपालय? गृहे स्थित्वा सुखं भुक्ष्वेत्यर्थः. अथवा 'चित्तधणप्पभूयं' इत्येकमेव पदं गृहविशेषणं. चित्रं | नानाप्रकारं, प्रभूतं प्रचुरं धनं यस्मिन् तच्चित्रप्रभूतधनं, एतादृशं मम मंदिरं गृहाणेत्यर्थः. पुनः कीदृशं गृहं? पांचालदेशानां गुणा इंद्रयविषयाः शब्दरूपरसगंधस्पर्शास्तैरुपपेतं पांचालगुणोपपेतं. च। पुना रम्या रमणीया ममावसथाः प्रासादाः प्रवेदिताः प्रकर्षेण वेदिताः प्रवेदिताः प्रकटाः संति.
ACACAN-EALSARAL
॥४६९॥
For Private And Personal Use Only