________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटीक
॥४७१॥
॥मूलम्॥-तं पुवनेहेण कयाणुरायं । नराहिवं कामगुणेसु गिद्धं ॥धम्मस्सिओ तस्स हिआणुपेही। चित्तो इमंवयणमुदाहरित्था॥१४॥व्याख्या-यदातु ब्रह्मदत्तेन संभूतजीवेन चित्रजीवंसाधुंप्रत्युक्तं,तदा चित्रजीवः साधुश्चित्र इदं वचनं तं ब्रह्मदत्तनराधिपं चक्रिणप्रति उदाजहार अवादीत्.कथंभूतं तं ब्रह्मदत्तं? पूर्वस्नेहेन कृतानुराग, पूर्वभवबांधवप्रेम्णा विहितप्रीतिभावं. पुनः कथंभूतं नराधिपं? कामगुणेषु विषयसुखेषु लोलुपं. कीदृशश्चित्रजीवसाधुः? धर्माश्रितो धर्ममाश्रितः. पुनः कीदृशश्चित्रः? तस्य ब्रह्मदत्तस्य हितानुप्रेक्षी हितवांछकः, हितमनुप्रेक्षते इत्येवंशीलो हितानुप्रेक्षी. ॥ १५॥ किमुदाजहारेत्याह
॥ मूलम् ॥-सव्वं विलवियं गीयं । सवं नर्से विडंबियं ॥ सवे आभरणा भारा । सवे कामा दुहावहा ॥ १६ ॥ व्याख्या हे राजन् ! गीतं सर्व विलपितं विलापतुल्यं, सर्व नाटघं नाटकं विडंबितं, भृतावेष्टितपीतमद्यादिजनांगविक्षेपतुल्यं सर्वाण्याभरणानि भारतुल्यानि. सर्वे कामा दुःखावहा दुःखदायकाः, गजपतंगभंगमीनकुरंगादीनामिव बंधनमरणादिकष्टदा इत्यर्थः ॥ १६॥
G-CHCG-NCC-CA-COECE-ACE%
४७१॥
For Private And Personal Use Only