________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandie
'उत्तरा
सटीक
॥४७॥
A%%
A
ॐ555655
तानपि त्वं प्रसाधीति शेषः. मम वार्धकिरत्नपुरस्सरैर्देवैरुपनीताः प्रासादाः, ते के प्रासादाः? उच्च १, उदय २, मधु ३, कर्क ४, ब्रह्म ५, एते पंच प्रासादा यत्र चक्रिणो रोचंते तत्रैव वार्धकिरत्नेन चकिसूत्रधारेण विधीयते इति वृद्धा आहुः. तस्मादत्रेदं गृहमिति पृथगुक्तमस्ति. पांचालानां गुणग्रहणं तु अत्युदीर्णत्वात्. अन्यथा भरतक्षेत्रस्य सारं तद्गृहेऽस्त्येव. ॥ १३ ॥
॥ मूलम् ॥-नहेहिं गीएहिं य वाइपहिं । नारीजणाइं परिवारयते ॥ भुंजाइ भोगाइ इमाइ भिक्खु । मम रोयई पवजा हु दुक्ख ॥ १४ ॥ व्याख्या-भो चित्र! हे भिक्षो! हे साधो! ममैतद्रोचते, एतद् हृदये प्रतिभाति. हु इति निश्चयेन प्रव्रज्या दुःखं वर्तते इति शेषः. दीक्षायां सुखं किमपि नास्ति. तस्मात् हे साधो! त्वमिमान् प्रत्यक्षं दृश्यमानान् भोगान् भुंव ? कथंभृतः सन्? नाटकैत्रिंशद्विधैः, गीतैर्गांधर्वशास्त्रोक्तैः, वादित्रैर्भरतशास्त्रोक्तैर्मुदंगादिभिस्तथा नारीजनैः परिवृतः । सन् विषयसुखान्यनुभव? अत्र नारीजनानामेव ग्रहणं कृतं,अन्येषां गजाश्ववस्त्रासनद्रव्यादीनां ग्रहणं| न कृतं, तत्तु तस्य स्त्रीलोलुपत्वात्, सर्वविषयेषु स्त्रीणामेव प्राधान्यात्. ॥ १४ ॥
%AC%ARRC
४७०॥
For Private And Personal Use Only