________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ४६८ ॥
www.kobatirth.org
तत्र चक्रवर्तिवत्तस्य ऋद्धिरासीत्, प्रतिदिनं सुवर्णदीनाराणां कोटिं याचकेभ्यो ददान आसीत्. निरंतरं च षट्ऋतुसुखदायकेषु मनोहरोच्चैस्तरप्रासादेषु भोगान् भुंजानोऽनेकगजतुरगरथयानादिकऋद्धिमान् सुरूपकामिनीनां परिकरेण परिवृतो द्वात्रिंशद्विधंनाटकं पश्यन् सदा सुखनिमग्नो बहुधा भोगरसयुक्तो बभूवेति कथानकं ज्ञेयं ॥ ११ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
सटीकं
॥ मूलम् ॥ — महत्थरूवा वयणप्पभूआ । गाहाणुगीया नरसंगमज्झे जं ॥ भिक्खुणो सीलगुणोववेया । इहं जयंते समणोमि जाओ ॥ १२ ॥ व्याख्या - अथ चेदेतादृशी ऋद्धिस्तव आसीत्, तर्हि कथं त्यक्ता ? हे भ्रातः सा गाथा साधुभिर्नरसंघमध्ये, नराणां मनुष्याणां संघो नरसंघस्तस्य मध्ये मनुष्यसभामध्येऽनुगीता उक्ता, मया श्रुतेति शेषः. गीयते इति गाथा धर्माभिधायिनी सूत्रपद्धतिर्मया स्थविरमुखात्कर्णगोचरीकृता. कथंभूता गाथा ? महार्थरूपा, महान् द्रव्यपर्यायभेदसहितो निश्चयव्यवहारसहितश्च अर्थो यस्य तन्महार्थं, तादृशं रूपं यस्याः सा महार्थरूपा . पुनः कीदृशा गाथा ? वयणप्पभृआ, वचनैर्नयभेदेः प्रभूता वचनप्रभूता, अल्पाक्षरा बह्वर्थेत्यर्थः सा इति का गाथा ? 8
॥ ४६८ ॥