________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥४६७॥
यंते प्रार्थ्यते जनैरित्याः , तैररित्यनेन चित्रजीवेन साधुनोक्तं मयापि सर्वेद्रियाणां सुखानि द्रव्याणि च पुण्यफलानि प्राप्तानीति. इति त्वया न ज्ञातव्यं यदनेन किमपि सुकृतफलं न लब्धमस्तीति भावः ॥ १०॥ तदेव सूत्रकारो गाथया आह
॥मूलम् ॥ जाणासि संभूय महाणुभागं । महद्वियं पुण्णफलोववेयं ॥ चित्तंपि जाणाहि तहेव रायं । इट्ठी जुई तस्सवि य प्पभूया ॥ ११ ॥ व्याख्या-पूर्वनाम्ना ऋषिर्वदति-हे संभूतमहाराज! यथा त्वमात्मानं महानुभागं तथा महर्द्धिकं तथा पुण्यफलोपपेतं जानासि, तथा चित्रमपि मामपि तादृशमेव जानीहि ? महान् अनुभागो यस्य स महानुभागस्तं महानुभागं बृहन्माहात्म्यं. तथा | महती ऋद्धिर्यस्य स महर्द्धिः, महर्द्धिरेव महर्द्धिकस्तं महार्दिकं विशाललक्ष्भीकं, पुण्यफलेन उपपेतस्तं एतादृशं. ऋद्धिर्द्विपदचतुष्पदधनधान्यादिसंपत्तिः, द्युतिर्दीप्तिस्तस्य चित्रस्यापि, अर्थान्ममापि प्रचुरा वर्तते इति जानीहि? चशब्दोऽत्र यस्मादर्थे. इह वृद्धसंप्रदायः-यथा निदानसहितः संभूतसाधुश्चक्रवर्त्यभूत, तथा चित्रसाधुनिदानरहित एकस्य श्रेष्टिमहर्द्धिकस्य कुले पुत्रत्वेनोत्पन्नः,
CAGACANCACIALOGICALC
॥४६७॥
For Private And Personal Use Only