________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा॥ ४६६ ।।
www.kobatirth.org
चित्र ! यथाहं राज्यसुखं भुंजे, तथा किं चित्रोऽपि भवानपि नु भुंक्ते? नु इति वितकें. कोऽर्थः ? चकी वदति यथाहमिदानीं पूर्वोपार्जितानां सुकृतानां फलानि परिभुंजे, तथा किं चित्रो भवान् परिभुंक्ते ? अपि तु भवान् न परिभुंक्ते एव, भवतस्तु भिक्षुकत्वात् तानि सुकृतानि निष्फलानि जातानीत्याशयः ॥ ९ ॥ अथ मुनिराह॥ मूलम् ॥ चिन्नं सफलं नराणं । कडाण कम्माण न मुक्ख अस्थि ॥ अत्थेहिं कामेहिं उ उत्तमेहिं । आया ममं पुन्नफलोववे ॥ १० ॥ व्याख्या - हे राजन् ! नराणां सुचीणं सम्यक्प्रकारेण कृतं संयमतपःप्रमुखं सर्वं सफलमेव वर्तते, नराणामित्युपलक्षणत्वात् सर्वेषामपि सफलं भवति. यतः कृतेभ्यः कर्मभ्यो मोक्षो नास्ति, जीवैः कृतानि कर्माण्यवश्यं भुज्यंते, प्राकृतत्वात् पंचमीस्थाने षष्टी कृतानां कर्मणां मोक्षो नास्ति, यदुक्तं - कृतकर्मक्षयो नास्ति । कल्पकोटिशतैरपि ॥ अवश्यमेव भोक्तव्यं । कृतं कर्म शुभाशुभं ॥ १ ॥ तस्मान्ममाप्यात्मा अर्थेद्रव्यैः पुनः कामैर्विषयसुखैः पुण्यफलैरुपेतो वर्तते. कीदृशैरर्थैः कामैः ? उत्तमैर्मनोहरैः अथवा कीदृशैः कामैः ? अभ्यैः प्रार्थनीयैः, अ
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीकं
॥ ४६६ ॥