________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटीक
॥४६५॥
रस्परवियोगसहिता पष्टिका जातिरियं प्रत्यक्षा जाता. ॥७॥ इति श्रुत्वा मुनिराह
॥ मूलम् ॥-कम्मा नियाण पगडा । तुमे राय विचिंतिया ॥ तेसिं फलविवागेण । विप्पओगमुवागया ॥८॥ व्याख्या-हे राजन् ! त्वया कर्माणि विचिंतितानि, आर्तध्यानरूपाणि ध्यानानि ध्यातानि, आर्तध्यानहेतुभूतानि कर्माणि विचिंतितानीत्यर्थः. कीदृशानि कर्माणि ? निदानप्रकृतानि निदानेनोपार्जितानि, निदानेन भोगप्रार्थनावशेन प्रकृतानि निदानप्रकृतानि प्रकर्षण बद्धानि, तेषां कर्मणां फलविपाकेन फलोदयेन आवां विप्रयोगमुपागतौ वियोगं प्राप्तौ. ॥८॥ अथ चक्री प्रश्नं करोति
॥ मूलम् ॥-सच्चसोअप्पगडा। कम्मा मए पुरा कडा ॥ ते अज परिभुजामो । किंतु चित्तेवि से तहा ॥९॥ व्याख्या-हे साधो! हे भ्रातर्मया पुरा पूर्वजन्मनि कर्माणि कृतानि. कथंभूतानि कर्माणि? सत्यशौचप्रकटानि, सत्यं मिथ्याराहित्यं, शौचमात्मशुद्धिकारकं धर्ममयमनुष्टानं. सत्यं च शौचं च सत्यशौचे, ताभ्यां प्रकटानि प्रसिद्धानि, एतादृशानि मया सुकर्माणि कृतानि. तानि शुभकर्माणि अद्यास्मिन् जन्मनि परि समंतात् भुंजे, स्त्रीरत्नभोगद्वारेण तेषां फलं विषयसुखान्यनुभवामि. हे
बन्दOCA-NCRACLASALACES
॥४६५॥
For Private And Personal Use Only