________________
Shri Mahavir Jain Aradhana Kendra
www kobirth.org
Acharya Shri Kailassagersuri Gyarmandie
उत्तरा
सटीक
॥४६३॥
वियुक्तयोः॥१॥ इति श्लोकोत्तरार्धं पूरितं. तद्वनमध्ये अरघट्टभ्रामकेण आरामिकेण साधुमुखेन श्रु- त्वा राज्ञोऽग्रे उक्तं. राजापि श्रुत्वा मूर्छा प्राप. ततो राज्ञा पृष्टेन कुट्टितेन च तेनोक्तं मया श्लोकार्धं पूरितं नास्ति. किंवारामे कायोत्सर्गस्थितेन एकेन साधुना पूरितं. ब्रह्मदत्तचक्रधरेण श्लोकपूरणात् ज्ञातोऽयं साधुर्मम भ्राता. ततो राजा मुनिसमीपे गतः, अत एव सूत्रकारेणोक्तं, कांपिल्ये नगरे द्वावपि चित्रसंभूतो चित्रसंभूतजीवौ चक्रवर्तिमुनीश्वरौ समागतो, एकत्र मिलितो तौ च सुखदुःखफल| विपाकं सुकृतदुःकृतकर्मानुभावरूपं एकैकस्य परस्परं कथयतःस्म इत्यध्याहार्य. ॥३॥
॥ मूलम् ॥-चक्कवट्टी महडिओ। बंभदत्तो महायसो ॥ भायरं बहमाणेणं । इयं वयणमब्बवी ॥४॥ व्याख्या-ब्रह्मदत्तचक्रवर्ती भ्रातरं बहुमानेन मनसो रागेण इदं वचनमब्रवीत्. कथंभूतः चक्रवर्ती ? महर्द्धिकः संप्राप्तषड्खंडराज्यः, पुनः कथंभूतो ब्रह्मदत्तः? महायशाः, महद् यशो यस्य स महायशा भुवनत्रयप्रसिद्धः ॥ ४॥
॥ मूलम् ॥-आसि मो भायरा दोवि । अन्नमन्नवसाणुगा ॥ अन्नमन्नमणुरत्ता । अन्नमन्नहि
॥४६३॥
For Private And Personal Use Only