________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटीक
॥४६२॥
धम्मं सोऊण पवइओ ॥२॥ व्याख्या-कांपिल्ये नगरे ब्रह्मराजा, तद्भार्या चुलनी, तयोः पुत्रः संभूतजीवो ब्रह्मदत्तः संजातः. चित्रश्चित्रजीवः पुनः पुरिमतालनगरे विशाले विस्तीर्णे एकस्मिन् श्रेष्टिनः कुले श्रेष्टिपुत्रः संजातः. स च चित्रजीवस्तत्र श्रेष्टिपुत्रत्वेन समुत्पद्य अनुक्रमेण तारुण्ये धर्म श्रुत्वा प्रबजितःप्रव्रज्यामग्रहीत्. ॥२॥
॥ मूलम् ॥-कंपिल्लंमि य नयरे । समागया दोवि चित्तसंभूया ॥ सुहदुक्खफलविवागं । कं- | हंति ते इक्कमिकस्स ॥३॥ व्याख्या-अथ स चित्रजीवो गृहीतदीक्षः समुत्पन्नजातिस्मृत्यादिज्ञानो विहरन् कांपिल्ये नगरे समागतः, तत्रैव कांपिल्ये ब्रह्मदत्तोऽपि लब्धचक्रवर्तिपदस्तिष्टति. एकदा स देवोपनीतमंदारकल्पवृक्षाणां मालासाधयं दृष्ट्वा समुत्पन्नजातिस्मृतिरभूत्. तदा च ब्रह्मदत्तेन-आस्त्र दासौ मृगौ हंसौ। मातंगावमरी तथा ॥ इति श्लोकार्धं स्वबंधुसंबंधगर्भितं कृत्वा नगरे उदघोषणा कारिता, यः कश्चिदग्रेतनं श्लोकार्धं पूरयति, तस्मै वांछितं ददामि, राज्याधं ददामि. अस्मि-IT न्नेवावसरे भ्रातृबोधनार्थं समागतेन चित्रजीवसाधुना-इमा नौ पष्टिका जाति-रन्योन्याभ्यां
CA-NCCE%AC-CG-ICALC
For Private And Personal Use Only