________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥४६१ ।।
यित्वा वैरवालनसुखमनुभवामि. मंत्रिणा तस्य चक्रिणः क्लिष्टकर्मोदयवशतामवगम्य शाखोटतरुफलानि स्थाले निक्षिप्य अर्पितानि. सोऽपि रौद्राध्यवसायस्तानि फलान्यक्षिबुध्या मर्दयित्वा सुखमनुभवति. एवं स प्रत्यहं करोति. ततः सप्तशतानि षोडशोत्तराणि वर्षाणि आयुरनुपाल्य प्रवर्धमानरौद्राध्यवसायः सप्तमनरकपृथिव्यां त्रयस्त्रिंशत्सागरोपमायुर्नारको बभूव. सांप्रतं सूत्रमनुष्टीयते
॥ मूलम् ॥-जाईपराजिओ खलु । कासि नियाणं तु हत्थिणपुरंमि ॥ चुलनीइ बंभदत्तो। उप्पन्नो पउमगुम्माओ॥१॥ व्याख्या-खलु इति निश्चये अलंकारे वा, जात्या चांडालाख्यया | पराजितः पराभूतः सर्वतो निर्धाटितो गृहीतदीक्षः संभूतश्चित्रस्य लघुभ्राता हस्तिनापुरे चक्रवर्तिस्त्रीरत्नवंदनात् केशपाशसंस्पर्शात् चक्तवर्तिपदप्रार्थनारूपनिदानमकार्षीत्. ततः स संभूतसाधुः पद्मगुल्मविमाने नलिनगुल्मविमाने उत्पन्नः. ततश्च नलिनगुल्मविमानात् संभूतजीवो ब्रह्मराज्ञो भार्या चुलनी, तयोः पुत्रत्वेन ब्रह्मदत्त इति नाम्ना उत्पन्नः. इति. ॥१॥
॥ मूलम् ॥-कंपिल्ले संभूओ। चित्तो पुण जाओ पुरिमतालंमि ॥ सिडिकुलंमि विसाले ।
-OCTORGAAAAAES
॥४६१॥
For Private And Personal Use Only