________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandir
सटीक
उत्तरा-ला तत्यागान्नरकपातहेतुः कतिपयदिनभावि राज्याश्रयणं न विदुषां चित्तमाहलादयति. ॥४५९॥
ततः परित्यज्य कदाशयं प्राग्भवानुभूतदुःखानि स्मर? पिव जिनवचनामृतरसं? संचर तदुक्तमार्गेण ? सफलीकुरु मनुष्यजन्मेति. स प्राह भगवन्नुपनतत्यागेनाऽदृष्टसुखवांछाऽज्ञानतालक्षणं, तन्मैवमादिश? कुरु मत्समीहितं? मुनिराह संसारसुखं भुक्तं परभवे महते दुःखाय भावीति तत्त्यागः कार्यते. एवं मुनिना वारंवारमुक्तोऽपि यदा चक्रवर्ती न प्रतिबुध्यते, तदा मुनिना चिंतितं, आः ज्ञातं, पूर्वभवे सनत्कुमारचक्रिस्त्रीरत्नकेशसंस्पर्शनजाताभिलाषातिरेकेण संभृतभवेऽमुना मया निवार्यमाणेनापि चक्रवर्तिपदवीप्राप्तिनिदानं कृतं, तस्येदृशं फलं. अतः कारणादसो दुष्टाध्यवसायो जिनवचनानामसाध्य इत्युपेक्षितः. मुनिस्ततो विजहार, क्रमेण च मोक्षं गतः. चक्रिणोऽपि प्रकामं सुखमनुभवतः कियान् कालोऽतीतः. अन्यदैकेन पूर्वपरिचितेन द्विजातिनोक्तोऽसौ, भो राजाधिराज! ममेदृशी वांछा समुत्पन्नास्ति यच्चक्रिभोजनं भुजे. चक्रिणोक्तं भो द्विज! मामकं भोजनं भोक्तुं त्वमक्षमः, यतो मां विहाय मद्भोजनमन्यस्य न परिणमिति. ततो ब्राह्मणेनोक्तं धिगस्तु ते राज्यलक्ष्मीमाहात्म्यं,
--CCCCCCE
॥४५९॥
For Private And Personal Use Only