________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shekilassagersuri Gyanmandie
उत्तरा
सटीक
॥४५८॥
GEOGRA
CCC
वियुक्तयोः ॥१॥ ततोऽसावारघट्टिकस्तत् श्लोकार्धं लिखित्वा प्रफुल्लास्यपंकजो गतो राजकुलं, पठितश्चक्रिणः पुरः संपूर्णः श्लोकः. ततः पूर्वभवभ्रातृस्नेहातिरेकेण चक्री मूछा गतः, क्षुभिता सभा, रोपवशंगतेन सेवकवर्गेण आरघट्टिकश्चपेटाभिहँतुमारब्धः, हन्यमानेन तेनोचे, इदं पदद्वयं मया न पूरितं किंतु वनस्थितेन मुनिनेति विलपन्नसौ मोचितः. गतमूर्छन चक्रिणा पूर्वभवभ्रातृमुनि समागतं श्रुत्वा तद्भक्तिस्नेहाकृष्टचित्तो ब्रह्मदत्तचक्री सपरिकरो निर्ययो. उद्याने तं मुनिं ददर्श, वंदित्वा चाग्रे उपविष्टः, मुनिना प्रारब्धा धर्मदेशना, दर्शिता भवनिर्गुणता, वर्णिताः कर्मबंधहेतवः, श्लाघितो मोक्षमार्गः, ख्यापितः शिवसौख्यातिशयः, इमां देशनां श्रुत्वा पर्षत्संविग्ना जाता. ब्रह्मदत्तस्वभावित एवमाह, भगवन् ! यथा स्वसंगसुखेन वयमाह्लादितास्तथा राज्यस्वीकारेण सांप्रतमस्मानाहादयंतु. पश्चादावां तपः स्वयमेव करिष्यावः, एतदेव वा तपसः फलं. मुनिराह युक्तमेवेदं वचो भवतामुपकारोद्यतानां, परमियं मानुष्यता दुर्लभा, सततं पतनशीलमायुः, श्रीश्च चंचला, अनवस्थिता धर्मबुद्धिः, विषया विपाककटवः, विषयासक्तानां च ध्रुवो नरकपातः, दुर्लभं पुनर्मोक्षबीजं विरतिरत्ने,
H A-CEO-COLOG
॥४५८
For Private And Personal Use Only