________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥४५७॥
BHASASSE5KAS
गीतविनोदं शृण्वतश्चक्रवर्तिन एवं विमों जातः. एवंविधो नाट्यविधिर्मया क्वचिद् दृष्टः, क्वचिच्चैतादृशं पुष्पदामगंडमपि घातं. एवं चिंतयतस्तस्य जातिस्मरणमुत्पन्नं. दृष्टाः पूर्वभवाः, तत्र सौधर्मे पद्मगुल्मविमानेऽनुभूतं नाट्यदर्शनदिव्यपुष्पाघ्राणादिकं तस्य स्मृतिपथमाययो. देवसुखस्मरणेन मूछौं | गतः पतितो भूमौचक्री. पार्श्ववर्तिभिर्वातोरक्षेपादिना स्वस्थीकृतः. ततश्वक्रवर्तिना पूर्वभवभ्रातृशुध्यर्थं श्लोकार्थमिदं रचितं, यथा-आस्व दासो मृगौ हंसौ । मातंगावमरौ तथा ॥ इदं श्लोकार्धं कृत्वा चक्रिणा वरधनुसेनापतेरुक्तं, इदं श्लोकाधं सर्वत्र निर्घोषय? एतत्पश्चिमार्धं यः पूरयति तस्य राजा राज्याधं ददाति. इदं श्लोकाधं सर्वलोकैः शिक्षितं, ते यत्र तत्र निर्घोषयंति. अत्रावसरे स पूर्वभवसंबंधी भ्राता चित्रजीवः पुरिमतालनगरे इभ्यपुत्रो भूत्वा संजातजातिस्मरणो गृहीतव्रतस्तत्र नगरे मनोरमाभिधाने आराम समवसृतः, तत्र प्रासुके भूभागे पात्रोपकरणानि निक्षिप्य धर्मध्यानोपगतः कायोत्सर्गेण स्थितः. अत्रांतरे आरघट्टिकेन पव्यमानं तत् श्लोकार्धं मुनिना श्रुतं. ज्ञानोपयोगेन स्वभ्रातृस्वरूपं सर्वमवगम्य मुनिनोत्तरचरणद्वयं पूरितं-एषा नौ षष्टिका जाति-रन्योन्याभ्यां
ACANCINCRECCCCCE
॥४५७॥
For Private And Personal Use Only