________________
Shri Mahavir Jain Aradhana Kendra
'उत्तरा॥ ४५४ ॥
www.kobatirth.org
नीतः समुच्छलितः साधुकारः, जयति कुमार इति पठितं बंदिजनैः, कुमारेण स करी आलानस्तं - भसमीपं नीतो बद्धश्च नरपतिस्तमनन्यसदृशं दृष्ट्वा परमं विस्मयं प्राप्तः स्वमंत्रिणं पप्रच्छ, क एषः ? ततः कुमारस्वरूपाभिज्ञेन मंत्रिणोक्तं, एष ब्रह्मराज्ञः पुत्रो ब्रह्मदत्तकुमार इति ततस्तुष्टेन राज्ञा नीतः कुमारः स्वभुवनं, सत्कृतश्च स्नानमज्जनभोजनादिभिः, ततः कुमारस्याष्टौ स्वपुत्र्यो दत्ताः, महोत्सवपूर्वकं तासां पाणिग्रहणं कुमारेण कृतं तत्र कियद्दिनानि वरधनुकुमारौ सुखेन स्थिती. अन्यदा एका स्त्री कुमारसमीपमागत्य भणितुं प्रवृत्ता, यथा कुमार ! अस्ति किंचिद्वक्तव्यं तव कुमारेणोक्तं वद ? सोवाच अस्यामेव नगर्यां वैश्रमणो नाम सार्थवाहः, तस्य पुत्री श्रीमत्यस्ति, सा मया बालभावादारभ्य पालिता, या त्वया तदानीं हस्तिसंभ्रमाद्रक्षिता. हस्तिसंभ्रमोद्धरिता सा तदानीं जीवितदायकं त्वां स्नेहेन विलोकयंती त्वदेकचित्ता त्वद्रूपलावण्यकलाकौशलमोहिता त्वामेव स्मरंती परिजनेन कथमपि स्वमंदिरं नीता, तत्रापि सा न मज्जनभोजनादिदेहस्थितिं करोति तदानीं मया तस्या उक्तं, कथं त्वमकांडे ईदृशी जाता यावन्ममापि प्रतिवचनं न ददासि ? हसित्वा सा एवमु
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
॥ ४५४ ॥