________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
H
उत्तरा
सटोकं
॥४५५॥
वाच, हे अंब! भवत्याः किमकथनीयं? परं लजया किंचिद्वक्तुं न शक्नोमि, पुनर्मया साग्रहं पृष्टा सोवाच, येनाहं हस्तिसंभ्रमाद्रक्षिता, तेन समं यदि मम पाणिग्रहणं न स्यात्तदा मेऽवश्यं मरणं, एवमुक्त्वा तयाहं तव समीपे प्रेषिता, अंगीकुरु तां बालिकां? कुमारेण तद्वचोंगीकृतं. प्रशस्तदिवसे तस्याः पाणिग्रहणं कुमारेण कृतं. वरधनुना तु सुबुद्धिनामामात्यपुत्र्या नंदननाम्न्याः पाणिग्रहणं कृतं. एवं च द्वयोरपि विषयसुखमनुभवतोस्तयोर्गताः कियंतो वासराः, तयोः सर्वत्र प्रसिद्धिर्जाता.
तावन्यदा गतो वाराणस्यां, ब्रह्मदत्तं बहिः स्थापयित्वा वरधनुर्नगरस्वामिकटकसमीपं गतः, एष हर्षितः सबलवाहनः संमुखो निर्गतः, कुमारं च हस्तिस्कंधे समारोप्य नगरीप्रवेशोत्सवो महान् कृतः. खभवने नीतस्य कुमारस्य स्नानमजनभोजनादिसामग्री कृत्वा, प्रकामं सत्कारं कृत्वा च स्वपुत्री कनकवती अनेकहयगजरथद्रव्यकोशसहिता दत्ता, प्रशस्तविवाहो जातः, तया समं विषयसुखमनुभवतस्तस्य सुखेन कालो याति. ततो दूतसंप्रेषणेनाकारिताः सबलवाहनाः पुष्पचूलराजधनुमंत्रिकणेरदत्तभवदत्तादयोऽनेके राजमंत्रिणः समायाताः.तैः सर्वेः कुमारो राज्येऽभिषिक्तः, वरधनुस्तु सेनापतिः
OCOLOCARNAGA%A-LACES
॥४५५॥
For Private And Personal Use Only