________________
Shri Mahavir Jain Aradhana Kendra
www kobirth.org
Acharya Shri Kalassagarsuri Gyarmandie
उत्तरा
सटीक
॥४५१॥
एकरात्रौ ताभ्यां सममुषित्वा प्रभात कुमारस्तयोरेवमुवाच, युवां पुष्पवत्या समीपं गच्छतं, तया समं च तावत्स्थातव्यं यावन्मम राज्यलाभो भवति. एवं श्रुत्वा ते गते. तावत्कुमारो न तद्धवलगृहं न तं परिजनं च पश्यति, चिंतितवांश्च एषा विद्याधरीमायेति चिंतयन् रत्नवतीगवेषणनिमित्तं स तापसाश्रमाभिमुखं गतः. न च तत्र तेन रत्नवती दृष्टा, न चान्यः कोऽपि पुरुषो दृष्टः. ततः के पृच्छामीति विचार्य स इतस्ततः पश्यति, तावदेको भद्राकृतिः पुरुषस्तत्रायातः, कुमारेण स पृष्टः, भो महाभाग ! एवंविधरूपनेपथ्या एका स्त्री मयात्र मुक्ता, कल्येऽद्य वा त्वया सा दृष्टा? तेन भणितं पुत्र! त्वं किं तस्या रत्नवत्या भर्ता ? कुमारो भणति एवं. तेन भणितं कल्ये सा मया रुदंती दृष्टा, अपराहकाले च तस्याः समीपे गतः, पृष्टा च सा मया पुत्रि! कासि त्वं? कुतः समागता? किं ते शोककारणं? क वा त्वया गंतव्यं ? तया किंचित्कथिते सा मया प्रत्यभिज्ञाता, मम त्वं दौहित्री भवसीत्युदित्वा मया तस्य लघु पितुः समीपे गत्वादिष्टा. तेनाप्युपलक्ष्य सा विशेषादरेण स्वमंदिरे प्रवेशिता. सर्वत्र त्वं गवेषितः परं न क्वचिद् दृष्टः, सांप्रतं सुंदरं जातं यत्वं लब्धः, एवमुक्त्वा नीतः
॥४५१।
For Private And Personal Use Only