________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोक
॥४४९॥
FAC-AAAAAA
रासुरसमूहं पश्यति. राजापि पुत्रीसहितस्तत्र गंतुं प्रवृत्तः, अष्टापदे प्राप्तो जिनप्रतिमाश्च वंदिताः, कर्पूरागुरुधूपायुपचारो महान् कृतः. प्रदक्षिणात्रयं गृहीत्वा निर्गच्छता राज्ञाऽशोकपादपस्याध उपविष्टं चारणमुनियुगलं दृष्टं प्रणतं च. तत्रोपविष्टस्य राज्ञः पुरस्ताद गुरुणैवं धर्मदेशना कर्तुमारब्धाअसारः संसारः, शरीरं भंगुरं, शरदभ्रोपमं जीवितं, तडिद्विलसितानुकारि यौवनं, किंपाकफलोपमा भोगाः, संध्यारागसमं विषयसुखं, कुशाग्रजलबिंदुचंचला लक्ष्मीः, सुलभंदुःखं, दुर्लभं सुखं, अनिवारितप्रसरो मृत्युः, तस्मादेवं स्थिते सति भो भव्याः! मोहप्रसरं छिंदंतु, जिनेंद्रधर्मे मनो नयंतु. एवं चारणमणदेशनां श्रुत्वा सुरादयो यथागतास्तथा गताः. तदा लब्धावसरेणाग्निशिखिना भणितं, यथैतयोः बालिकयोः को भर्ता भविष्यति? चारणश्रमणाभ्यामुक्तमते द्वे कन्ये भ्रातृवधकारिणो नार्यों भविष्यतः. तयोरेतद्वचः श्रुत्वा राजा श्याममुखो जातः.
अस्मिन्नवसरे आवाभ्यामुक्तं, तात! सांप्रतमेव साधुभ्यामुक्तं संसारस्वरूपं, तत आवयोरलमेवंविधावसानेन विषयसुखेन, आवयोरेतद्वचस्तातेन प्रतिपन्नं. आवाभ्यां च भ्रातृस्नेहेन स्वदेहसुख
॥४४९॥
For Private And Personal Use Only