SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा Paw सटीक ॥४४७॥ वरधनुमित्र! त्वं क गतोऽसीति विलपन कुमारः कथमपि रत्नवत्या रक्षितः. कुमारो रत्नवतींप्रत्येव-| माह सुंदरि! न ज्ञायते वरधनुर्मतो जीवन् वास्तीति. ततोऽहं तदन्वेषणार्थं पश्चाद् व्रजामि. तया भणितमार्यपुत्र! अवसरो नास्ति पश्चाद्वलनस्य, येनाहमेकाकिनी, चौर श्वापदादिभीमं चारण्यमिदं, अत्र च निकटवर्ती सीमावकासोऽस्ति, येन परिम्लानाः कुशकंटका दृश्यंते. एतद्रनवतीवचः प्रतिपद्य रत्नवत्या सह कुमारः पथि गंतुं प्रवृत्तः, मगधदेशसंधिसंस्थितमेकं ग्रामं च प्राप्तः, तत्र प्रविशन् कुमारः सभामध्यस्थितेन ग्रामाधिपतिना दृष्टः. दर्शनानंतरमेव एष न सामान्यः पुरुष इति ज्ञात्वा सोपचारः प्रतिपत्त्या पूजितो नीतश्च स्वगृहं, दत्तस्तत्र सुखावासः, तत्र सुखं तिष्टन् स एकदा ग्रामाधिपतिना भणितः, कुमार! त्वं विखिन्न इव किं लक्ष्यसे? कुमारेणोक्तं मम भ्राता चोरेण सह । भंडनं कुर्वन् न जाने कामप्यवस्था प्राप्तः, ततो मया तदन्वेषणार्थं तत्र गंतव्यं. ग्रामाधिपेनोक्तमलं खेदेन, यद्यस्यामटव्यां स भविष्यति तदावश्यमिह प्राप्स्यामः, इति भणित्वा तेन प्रेषिता निजपुरुषा अटव्यां गत्वा समायाताः कथयंति, यदस्माभिः सर्वत्र स पुरुषो गवेषितः, परं कचिन्न दृष्टः, LASSICALSO-C ॥४४७॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy