________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ४४४ ॥
www.kobatirth.org
प्रसादेन सर्वं भव्यं भविष्यति, किंतु तस्य विश्वासनिमित्तं बुद्धिलव्यपदेशेन इमं हाररत्नं करंडके प्रक्षिप्य ब्रह्मदत्तराज नामांकितलेखसहितं कृत्वा कस्यचिद्धस्ते प्रेषय ? ततो मया कल्ये तथा विहितं, एष लेखव्यतिकरः सर्वोऽपि मया तव कथितः, सांप्रतं प्रतिलेखं देहि ? ततो मयापि तस्याः प्रतिलेखो दत्तः, तन्मध्ये चेदृशी गाथा लिखितास्ति - गुरुगुणवरधणुकलिओ । तं माणिओ मुणइ वंभ| दत्तोव ॥ रयणवई रयणमई । चंदोवि य चंदमा जोगो ॥ १ ॥ इदं वरधनूक्तमाकर्ण्य अदृष्टायामपि रत्नवत्यां परमप्रेमवान् कुमारो जातः तद्दर्शनसंगमोपायमन्वेषमाणस्य कुमारस्य गतानि कतिचिद्दिनानि .
'अन्यदिने समागतो नगरबाह्याद्वरधनुरेवं वक्तुं प्रवृत्तः, यथा एतन्नगरखामिनो दीर्घनृपेण स्वकिंकरा आवयोर्गवेषणाय प्रेषिताः संति. नगरस्वामिना चावयोर्ग्रहणोपायः कारितोऽस्ति, एतादृशी लोकवार्ता बहिः श्रुता. सागरदत्तेन एतद्व्यतिकरं श्रुत्वा तौ द्वावपि भूमिगृहे गोपितो. रात्रिः पतिता, कुमारेण सागरदत्तस्य भणितं तथा कुरु ? यथावामपक्रमावः एतदाकर्ण्य सागरदत्तस्ताभ्यां द्वाभ्यां सह नगराद्बहिर्निर्गतः स्तोकां भूमिं गत्वाऽनिच्छंतमपि सागरदत्तं बलान्निवर्त्य कुमारवरधनू द्वावपि
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीकं
॥ ४४४ ॥