SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ४४३ ॥ www.kobatirth.org अन्यदिने सा किंचिध्ध्यायंती मया दृष्टा, पृष्टा च पुत्रि ! त्वं किं ध्यायसीति सा किमपि नैव बभाण. | परिजनेनोक्तमियं बहून् प्रहरान् यावदीदृश्येव किंचिदार्त्तध्यानं कुर्वती दृश्यते, परमस्या हार्द न ज्ञायते ततः पुनरपि तस्याः पृष्टं, परं सा किंचिन्नावाच तत्सख्या प्रियंगुलतिकया उक्तं, हे भगवति ! तव पुरः सा लज्जया किंचिद्वक्तुं न शक्नोति, अहं तावत्कथयामि इयं गतदिने क्रीडार्थमुद्याने गता, तत्रांनया स्वभ्रातुर्बुद्धिलश्रेष्टिनः कुर्कुटयुद्धं कारयतः समीपे एको वरकुमारो दृष्टः, तं दृष्ट्वैषा एतादृशी जाता. कुमारीसख्याः प्रियंगुलतिकाया एतद्वचः श्रुत्वा मयोक्तं पुत्रि ! कथय सद्भावं, पुनः पुनरेवं मयोक्ता सा कथमपि सद्भावमुक्त्वा प्राह भगवति! त्वं मम जननीसमानासि न किंचित्तवाकथनीयं. अनया प्रियंगुलतिकया कथितो यो ब्रह्मदत्तः कुमारः, स मे पतिर्भविष्यति तदा वरं, अन्यथाहं मरिष्यामि सा मया भणिता वत्से ! धीरा भव ? अहं तथा करिष्ये, यथा तव समीहितं भविष्यति. ततः सा किंचित् स्वस्था जाता. कल्यदिने पुनरेवं मया तस्या विशेषाश्वासनकरणार्थं कल्पितमेवोक्तं, वत्से स ब्रह्मदत्तकुमारो मया दृष्टः तयापि समुच्छ्रवसितरोमकूपया भणितं, भगवति ! तव For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥ ४४३ ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy