________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ४४२ ॥
www.kobatirth.org
गतः, स्वरूपं कथयित्वा हारकरंडिकातो हारं निष्कास्य दर्शितवान्. हारं पश्यता ब्रह्मदत्तेन हारैक| देशस्थ ब्रह्मदत्तनामांकितो लेखो दृष्टः, पृष्टं च मित्र ! कस्यैष लेखः ? वरधनुर्भणति को जानाति ? ब्रह्मदत्तनामकाः पुरुषा बहवः संति ततो दूरे गत्वा वरधनुनोत्कीर्णो लेखः, तन्मध्ये इयं गाथा दृष्टापत्थिज्जइ जइ विजए । जणेण संजोयजणियजतेणं ॥ तहवि तुमं चिय धणिअं । रथणवई मुणेमाउं ॥ १ ॥ सूक्ष्मबुध्ध्या ध्यायता वरधनुनास्या गाथाया अर्थोऽवगतः द्वितीयदिने एका परित्राजिका तत्रायाता, सा कुमारशिरसि कुसुमाक्षतानि प्रक्षिप्य कुमार ! त्वं शतसहस्रायुर्भवेत्याशिषं ददौ ततः सा वरधनुमेकांते नयति, तेन समं किंचिन्मंत्रयित्वा सा प्रतिगता. कुमारेण वरधनुर्जल्पितः, अनया किमुक्तं ? वरधनुर्भणति अनयैवमुक्तं यत्तव बुद्धिलेन करंडे हारः प्रेषितोऽस्ति, तेन समं च यो लेखः समागतोऽस्ति तत्प्रतिलेखं समर्पय ? मयोक्तमेष लेखो ब्रह्मदत्तराजनामांकितो वर्तते, ततस्त्वमेव वद ? कोऽसौ ब्रह्मदत्तः ? तयोक्तं श्रूयतां परं कस्यापि त्वया न वक्तव्यं. इह नगर्या श्रेष्टिपुत्री रत्नवतीनाम्नी कन्यकास्ति, सा बालभावादारभ्यातीव मम स्नेहानुरक्ता योवनमनुप्राप्ता.
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटोकं
॥ ४४२ ॥