SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ४४१ ॥ www.kobatirth.org भिमानसिद्धिमात्रप्रयोजनमस्तीति ततो वरधनुना विलोकितः स कुर्कुटः तच्चरणनिबद्धः सूचीकलापो दृष्टः, बुद्धिलोऽपि वरधनुं प्रति शनैरेवमाह यदि त्वं सूचीकलापं न वक्षसि, तदाहं तव लक्षाधं दास्यामि ततो वरधनुनोक्तं विलोकितो यत्कुर्कुटो नाल किंचिद् दृश्यते, एवमुक्त्वापि यथा बुद्विलो न जानाति तथा सूचीकलापमाकृष्य सागरदत्तस्य तद्व्यतिकरः कथितः सागरदत्तेन पुनः स्वकुर्कुटः प्रेरितो बुद्धिलकुर्कुटेन समं युद्धं प्रववृते, सागरदत्तकुर्कुटेन जितो बुद्धिलकुर्कुट, हारितं बुद्धिलेन लक्षं. तुष्टः सागरदत्त एवमाह आर्यपुत्र ! गृहे गम्यते, इत्युक्त्वा द्वावपि कुमारौ रथे निवेश्य सागरदत्तः स्वगृहे गतः, सागरदत्तस्तौ परमप्रीत्या पश्यति, सागरदत्तस्नेहनियंत्रितौ तावतीवाग्रहातद्गृह एव तस्थतुः. कियद्दिनानंतरमेको दासस्तत्रायातः, तेनैकांते वरधनुराकारितः, उक्तं च वरधनुकुमाराय तव तदानीं सूचीव्यतिकरद्रव्यं स्वमुखोक्तं, बुद्धिलेन तद्रव्यार्पणायायं हारः प्रेषितोस्ति इत्युक्त्वा हारकरंडिका तेन वरधनवे दत्ता, दासः स्वगृहे गतः, वरधनुरपि हारकरंडिकां गृहीत्वा ब्रह्मदत्तांति For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं ॥ ४४१ ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy