SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ४४० ॥ www.kobatirth.org. सुभगनामा, तव पिता धनुर्नष्टः, माता तु दीर्घेण गृहीता, मातंगपाटके च क्षिप्तास्तीति श्रुत्वाहमतीव दुःखितः कांपिल्यपुरे गतः, कापालिकवेषं कृत्वा मातंगमहत्तरं च वंचयित्वा मातंगपाटकान्मातरं निष्कासितवान्. एकस्मिन् ग्रामे पितृमित्रस्य देवशर्मब्राह्मणस्य गृहे मातरं मुक्त्वा त्वामन्वेषयन्नहमिहायातः इत्थं यावत्तौ वरधनुब्रह्मदत्तौ वार्तां कुरुतस्तावेदकः पुरुषस्तत्रागत्यैवमुवाच, यथा महाभाग ! भवता कचिदितस्ततो न पर्यटितव्यं, त्वद्गवेषणार्थं दीर्घनियुक्ता नरा इहागताः संतीति श्रुत्वा तौ द्वावपि ततो वनान्नष्टौ, भ्रमंतौ च कौशांव्यां गतौ तत्र बहिरुद्याने द्वयोः श्रेष्टिसुतयोः सागरदत्तबुद्धिलनानोः कुर्कुटयुगलं लक्षपणकरणपूर्वकं योध्धुं प्रवृत्तं दृष्टुं कौतुकेन तौ तत्रैव स्थितो. बुद्धिलकुर्कुटेन सागरदत्त कुर्कुटः प्रहारेण जर्जरीकृतो भग्नः, सागरदत्तेन प्रेर्यमाणोऽपि स्वकुर्कुटो बुद्धिलकुर्कुटेन समं पुनर्योध्धुं नाभिलषति हारितं लक्षं सागरदत्तेन. अत्रांतरे वरधनुनोक्तं भो सागरदत्त ! एष सुजातिरपि कुर्कुटः कथं भग्नः ? ममात्रार्थे विस्मयोऽस्ति यदि कोऽपि कोपं न करोति तदा बुद्धिल कुर्कु टमहं पश्यामि सागरदत्तो भणति भो महाराज ! विलोकय ? नास्त्यत्र मम कोऽपि द्रव्यलोभः, किंत्व For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥ ४४० ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy