________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersari Gyanmandir
4631
उत्तरा
सटीकं
॥४३९॥
सुखमनुभवतस्तस्य सुखेन वासरा यांति. अन्यदा स पल्लीपतिस्तेनं कुमारेण समं निजसैन्यवेष्टितः स्वविरोधिनृपदेशभंगाय चलितः. मार्गे गच्छतस्तस्य क्वचित्सरस्तीरे वरधनुर्मिलितः. कुमारेणोपलक्षितः. कुमारं दृष्ट्वा स रोदितुं प्रवृत्तः, कुमारेण बहुप्रकारं वारितः स्थितः. कुमारेण पृष्टं मत्तो दूरीभृतेन त्वया किमनुभूतं? वरधनुः प्राह कुमार! तदानीं त्वांवटाध उपवेश्याहं जलार्थं गतः, सर एकंच दृष्टवान्. ततो जलं गृहीत्वा तवांतिके यावदहमागंतुं प्रवृत्तस्तावत्सन्नद्धबद्धकवचैर्दीर्घनृपभटैः सहसा मिलितैरहमुपलक्षितस्ताडितश्च, उक्तं च क्व ब्रह्मदत्त इति. मयोक्तमहं न जानामि. ततो दृढतरं ताडितोऽहमवदं ब्रह्मदत्तो व्याघ्रण भक्षितः. तैरुक्तं तं देशं दर्शय ? तैर्मार्यमाणोऽहं तवांतिकदेशमागत्य | तदानीं तां संज्ञामकार्ष. त्वयि ततो नष्टेऽहं पुनस्तै शं ताड्यमानः स्वमुखे परिव्राजकदत्तां गुटिका क्षिप्तवान्. तत्प्रभावादहं निश्चेष्टो जातः. ततस्ते मृतोऽयमिति ज्ञात्वा सर्वेऽपि भटा गताः. तेषां गमनानंतरं चिरकालेन मया गुटिका मुखान्निष्कासिता. ततः सचेतनोऽहं त्वां गवेषयितुं प्रवृत्तः. न मया दृष्टस्त्वं, ततोऽहमेकं ग्रामं गतः, तत्र दृष्ट एकः परिव्राजकः, तेनोक्तमहं तव तातस्य मित्रं
-
-
CONCANCHC
॥४३९॥
For Private And Personal Use Only