________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोक
॥४३५॥
000000000000000000000
तं, हा धिगस्तु मे व्यवसितस्य, धिग्मे बाहुबलस्येति कुमारः स्वं निनिंद. पश्चात्तापाक्रांतेन तेन कुमारेण दृष्टं धूमपानलालसं कवंधं समधिकमधृतिस्तस्य पुनर्जाता.
इतस्ततः पश्यता कुमारेण पुनः प्रवरमुद्यानं दृष्टं, तत्र भ्रमन्नशोकतरुपारक्षिप्तमेकं सप्तभूमिककमावासं कुमारो दृष्टवान्. तन्मध्ये प्रविष्टः कुमारः क्रमेण सप्तमभूमिकामारूढः, तत्र विकसितकमलदलाक्षीं प्रवरां महिलां पश्यतिस्म. कुमारेण सा पृष्टा कासि त्वमिति. ततः सा स्वसद्भावं कथयितुं प्रवृत्ता, महाभाग! मम व्यतिकरो महान् वर्तते, ततस्त्वमेव प्रथमं ववृत्तांतं वद? कस्त्वं? कुतः समायातः? एवं तया पृष्टे कुमार आख्यत् पंचालाधिपतिब्रह्मराजपुत्रो ब्रह्मदत्तोऽस्मीति. कुमारोक्तिश्रवणानंतरं हर्षोत्फुल्लनयना सा अभ्युत्थाय तस्यैव चरणे निपत्य रोदितुं प्रवृत्ता. ततः सकारुण्यहदयेन कुमारेण सा पुनरेवं भणिता, मुखमुन्नतं कुरु ? मा रुदेति चाश्वासिता सा. ततः कुमारेण त्वं स्ववृत्तांतं वदेत्युक्ता साचख्यो, कुमार! अहं तव मातुलस्य पुष्पचूलस्य राज्ञः पुत्री, तवैव पित्रा दत्ता, विवाहदिवसं प्रतीक्षमाणा निजगृहोद्यानदीर्घिकापुलिने कोडंती दुष्टविद्याधरेणात्रानीता. याव
2000000000000000
॥४३५॥
For Private And Personal Use Only