________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटोकं
000@@@
॥४३४॥
३00000000000000000000
खेनात्र तिष्ट? इत्यभिप्रायं तापसस्य ज्ञात्वा कुमारस्तत्रैव सुखं तिष्टन्नस्ति. अन्यदा तत्र वर्षाकालः समायातः. तदानीं निश्चिंतेन कुमारेण तत्र तापसांतिके सकला धनुर्वेदिकाः कला अभ्यस्ताः. अन्यदा शरत्काले फलमूलकंदादिनिमित्तं तापसेषु गच्छत्सु ब्रह्मदत्तकुमारोऽपि तेः समं वने गतः. बनश्रियं पश्यता तेन एक महाहस्ती दृष्टः, कुमारस्तदभिमुख चलितः, कुमारं दृष्ट्वा हस्तिना गलगर्जिरवः कृतः, कुमारेण तस्य पुरो निजमुत्तरीयं वस्त्रं निक्षिप्तं, करिणापि तत्क्षणात् शुंडादंडेन गृहीतं, क्षिप्तं च गगनतले, यावत्स क्रोधांधो जातस्तावत् कुमारेण छलं कृत्वा तद्वस्त्रं स्वकराभ्यां गृहीतं, ततस्तेन नानाविधक्रीडया परिश्रमं नीत्वा करी मुक्तः, स पश्चाद्गंतुं प्रवृत्तः, तत्पृष्टौ कुमारोऽपि चलितः. इतश्चाग्रे गच्छन् कुमारः पूर्वापरदिग्विभागे परिभ्रमन् गिरिनदीतटसन्निविष्टं जीर्णभवनभित्तिमात्रोपलक्षितं जीणं नगरमेकं ददर्श. तन्मध्ये प्रविष्टश्चतुर्दिक्षु दृष्टिं क्षिपन् पार्श्वपरिमुक्तखेटकखड्गं विकटवंशकुडंगं ददर्श. कुमारेण तत्खड्गं तथैव कौतुकाद्वाहितं. एकप्रहारेण निपतितं वंशकुडंगं, वंशांतरालस्थितं च निपतितं रुंडमेकं, स्फुरदोष्टं मनोहराकारं शिरःकमलं दृष्ट्वा संभ्रांतेन कुमारेणैवं चिंति
@@@@@@@6@66000
॥४३४॥
For Private And Personal Use Only