________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोक
॥४३०॥
000000000000000000000
ल्येन न किमपि स्वहितं वेत्सि, अयमवश्यमावयोरतिविघ्नकरः, तदवश्यमयं मारणीयः, मयि स्वाधीने तवान्ये पुत्रा बहवो भविष्यंति. एतादृशं दीर्घनृपवचस्तयांगीकृतं. यत उक्तं-महिला आलकुलहरं। महिला लोयंमि दुचरियखित्तं ॥ महिला दुग्गइदारं । महिला जोणी अणत्थाणं ॥ १॥ मारेइ य भत्तारं । हणेइ सुअं पणासए अत्थं ॥ नियगेहिंपि पीलावै । णारी रागाउरा पावा ॥२॥ चुलन्या भणितं, कथमेष मारणीयः? कथं च लोकापवादो न भवति? दीर्घनृपेणोक्तं सांप्रतमस्य विवाहः क्रियते, पश्चात्सर्वमावयोचिंतितं भविष्यति, ततस्ताभ्यां ब्रह्मदत्तस्य मित्रस्य कस्यचिद्राज्ञः कन्यायाः पाणिग्रहणं कारितं, तयोः शयनार्थमनेकस्तंभशतसन्निविष्टं गूढनिर्गमद्वारं जतुगृहं कारितं. इतश्च 8 धनुमत्रिणा दीर्घनृपायैवं विज्ञप्तं एष मम पुत्रो वरधनुरेतद्राज्यकार्यकरणसमथों वर्तते, अहं पुनः परलोकहितं करोमि. दीर्घनृपेणोक्तमिह स्थित एव त्वं दानादिधर्म कुरु? तस्यैतद्वचः प्रतिपद्य धनुमत्रिणा गंगातीरे महती प्रपा कारिता, तत्र पथिकपरिव्राजकादीनां स यथेष्टदानं दातुं प्रवृत्तः. दानोपचारावर्जितैः परिव्राजकादिभिगिव्यूतप्रमाणा सुरंगा जतुगृहयावत्खानिता. जतुगृहांतः सुरंगद्वारि
90000000@9099g
॥४३०॥
For Private And Personal Use Only