________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोक
॥४२९॥
000000000000000000006
गारं विलोकयति, प्रविशत्यंतःपुरं, चुलिन्या समं मंत्रयति. तत इंद्रियाणां दुर्निवारत्वेन ब्रह्मराज्ञो हा मैत्रीमवगणय्य, वचनीयतामवमन्य चुलन्या समं संलग्नः. एवं प्रवर्धमानविषयसुखरसयोस्तयोर्गच्छंति दिनानि. ततो ब्रह्मराजमंत्रिणा धनुर्नाम्ना तयोस्तत्स्वरूपं ज्ञातं, चिंतितं च य एवंविधमकार्यमाचरति, स किं कुमारब्रह्मदत्तस्य हिताय भविष्यति? एवं चिंतयित्वा तेन धनुर्नान्ना मंत्रिणा स्वपुत्रस्य वरधनुनाम्नः कुमारस्यैवं भणितं, पुत्र! ब्रह्मदत्तस्य माता व्यभिचारिणी जातास्ति, दीर्घराज्ञा भुज्यमानास्ति, अयं समाचार एकांते त्वया ब्रह्मदत्तकुमारस्य निवेदनीयः, तेन च तथा कृतं.
ब्रह्मदत्तकुमारोऽपि मातुर्दुश्चरितमसहमानस्तयोपिनाथ काककोकिलामिथुनं शृलाप्रोतं कृत्वा चुलनोमातृदीर्घनृपयोर्दर्शितं, एवं प्रोक्तं च, य ईदृशमनाचारं करिष्यति, तस्याहं निग्रहं करिष्यामीत्युक्त्वा कुमारो बहिर्गतः. एवं द्वित्रिभिदृष्टांतैर्दिनत्रयं यावदेवं चकार उवाच च. ततो दीर्घनृपेण शंकितेन चुलन्या एवमुक्तं, कुमारेणावयोः स्वरूपं ज्ञातं, अहं काकस्त्वं कोकिलेति दृष्टांतः कुमारण ज्ञापितः. तयोक्तं बालोऽयं यत्तदुल्लपति, नात्रार्थे काचिच्छंका कार्या. ततोधृष्टेन दीर्घेणोक्तं, त्वं पुत्रवारत
900909960900000000000
॥४२९॥
For Private And Personal Use Only