________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोक
॥४२८॥
000000000000000000000
इभ्यपुत्रो जातः, संभूतजीवस्ततश्च्युतः कांपिल्यपुरे ब्रह्मनामा राजा, तस्य चुलनीनाम्नी भार्या, तस्याः कुक्षौ चतुर्दशस्वप्नसूचित उत्पन्नः, क्रमेण जातस्य तस्य ब्रह्मदत्त इति नाम कृतं, देहोपचयेन कलाकलापेन च वृद्धि गतः, तस्य ब्रह्मराक्ष उत्तमवंशसंभूताश्चत्वारः सुहृदः संति, तद्यथा-काशीविषयाधिपः कटकः, गजपुराधिपः कणेरदत्तः, कौशलदेशाधिपतिर्दीर्घः, चंपाधिपतिः पुष्पचूलश्चेति. | तेऽत्यंतस्नेहेन परस्परविरहमनिच्छंतः समुदिताश्चैव एकमेकं वर्ष परिपाट्या विविधक्रीडाविलासैरे.
कस्मिन् राज्ये तिष्टंति. अन्यदा ते चत्वारोऽपि समुदिताश्चैव ब्रह्मराज्ये स्थिताः संति. तस्मिन्नवसरे | ब्रह्मराज्ञो मंत्रतंत्रौषधाद्यसाध्यः शिरोरोग उत्पन्नः, ततस्तेन कटाकादिचतुर्णा मित्राणामुत्संगे ब्रह्मदत्तो मुक्तः, उक्तं च यथैष मद्राज्यं सुखेन पालयति तथा युष्माभिः कर्तव्यमिति राज्यचिंता कारयित्वा ब्रह्मराजा कालं गतः. मित्रैस्तस्य प्रेतकर्म कृतं, मिथश्चैवं भणितं, एष कुमारो यावद्वाज्यध
राहों भवति तावदस्माभिरेतद्राज्यं रक्षणीयमिति विचार्य सर्वसंमतं दीर्घराजानं तत्र स्थापयित्वा | कटककणेरदत्तपुष्पचूलाः स्वस्वराज्ये जग्मुः. स दीर्घराजा सकलसामग्रीकं तद्राज्यं पालयति, भांडा
300000000000000000000
॥४२
For Private And Personal Use Only