________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandie
सटोक
उत्तरा- मातापनां गृहंतमेकं श्रमणं ददृशतुः. हर्षितौ तो तत्समीपे जग्मतुः, भक्तिबहमानपूर्व ताभ्यां स | ३॥४२५॥
वंदितः, साधुना धर्मलाभकथनपूर्वकं तयोः स्वागतं पृष्टं, ताभ्यां पूर्ववृत्तांतकथनपूर्वकं स्वाभिप्रायः | साधोः कथितः, साधुना कथितं न युक्तमनेकशास्त्रावदातबुद्धीनां भवादृशानां गिरिपतनमरणं. सर्वदुःखक्षयकारणं श्रीवीतरागधर्म गृहंतु, इति पंचमहाव्रतरूपः श्रीवीतरागधर्मस्तयोः कथितः, ततस्ताभ्यां तस्य मुनेः समीपे दीक्षा गृहीता, कालक्रमेण तौ गीतार्थों जातो, ततः स्वगुर्वाज्ञया षष्टाष्टमदशमद्वादशार्धमासमासक्षपणादितपोभिरात्मानं भावयंतौ ग्रामानुयामं विहरंतौ कालांतरेण हस्तिनागपुरं प्राप्तो, बहिरुद्याने च स्थितो.
अन्यदा मासक्षपणपारणके संभृतसाधुनगरमध्ये भिक्षार्थ प्रविष्टः, गृहानुगृहं भ्रमन् राजमार्गानुगतो गवाक्षस्थेन नमुचिमंत्रिणा दृष्टः, प्रत्यभिज्ञातश्च. चिंतितं च स एष मातंगदारको मदध्यापितो मच्चरित्रमशेषमपि जानन्नस्ति, कदाचिच्च लोकाग्रे वक्ष्यते, तदा मन्महत्वभ्रंशो भविष्यतीति |
G॥४२५॥ 18] मत्वा दूतैः स मुनिर्यष्टिमुष्ट्यादिभिर्मारयित्वा नमुचिना नगराइहिनिष्कासयितुमारब्धः, निरपरा-18
00000000000000000000
DOOOO0000000000000000
For Private And Personal Use Only