________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
T
उत्तरा
सटीक
A
॥४२६॥
1000000000000000000036
| धस्य हन्यमानस्य तस्य कोपकरालितस्य मुखान्निर्गतःप्रथमं धूमस्तोमः, तेन सर्वमपि नगरमंधका| रितं, भयकुतूहलाकांता नागरास्तत्रायाताः, क्रोधाध्मातं तं मुनिं दृष्ट्वा सर्वेऽपि प्रसादयितुं प्रवृत्ताः. सनत्कुमारचक्रवर्त्यपि तत्रायातः, तं प्रसादयितुं प्रवृत्त एवं बभाण, भगवन्! यदस्मादृशैरज्ञानरपराद्धं तद्भवद्भिः क्षमणीयं, संहरंतु तपस्तेजःप्रभावं, कुर्वतु ममोपरि प्रसादं सर्वनागरिकजोवितप्रदानेन, पुनरेवंविधमपराधं न करिष्यामः, इत्यादि चक्रिणाप्युक्तोऽसो यावन्न प्रशाम्यति, तावदुद्यानस्थश्चित्रसाधुर्जनापवादात्तं कुपितं ज्ञात्वा तस्य समीपमागत एवमुवाच. भो संभूतसाधो! उपशामय कोपानलं, उपशमप्रधानाः श्रमणा भवंति, अपराधेऽपि न कोपस्यावकाशं ददति, क्रोधः सर्वधर्मानुष्टाननिष्फलीकारकोऽस्ति, यत उक्तं-मासुववासु करेइ । नित्त वणवासु निसेवे ॥ पढइ नाणु सुप्भाणु । निच्च अप्पाणं भावइ ॥१॥धारइ दुद्धरबंभचेरं । भिक्खासणं भुंजइ ॥ जासु रोस तासु सयल । धम्म निष्फलु संपज्जइ ॥२॥ इत्यादिकैश्चित्रसाधूपदेशैः संभूतस्योपशांतः क्रोधः, तेजोलेश्या संहता, ततस्तो द्वावपि तत्प्रदेशान्निवृत्ती, गतौ तदुद्यानं, चिंतितं चैताभ्यामावाभ्यां संलेखना
Để ats sopcast
नाणु सु
भुजई ॥
साधूपदेशः
॥४२६॥
For Private And Personal Use Only