________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोक
॥४२३॥
300000000000000000000
नगर्यां महर्द्धिकस्य भूतदिन्नाभिधस्य चांडालस्य पुत्रत्वेन समुत्पन्नौ, क्रमेण जातयोस्तयोः चित्रश्च संभूतश्चेति नामनी कृते. तो चित्रसंभूतौ मिथः प्रीतिपरौ जातो. इतश्च तस्मिन्नवसरे वाराणस्यां नगर्यां शं. खनामा राजा, तस्य नमुचिनामा मंत्री, अन्यदा तस्य किंचित् क्षुणं जातं, कुपितेन राज्ञा स वधार्थं | भूतदिन्नचांडालस्य दत्तः, भूतदिन्नचांडालेन तस्यैवमुक्तं, भो मंत्रिन् ! त्वामहं रक्षामि, यदि मगृहांतमिगृहस्थितो मत्पुत्रो पाठयसि, जीवितार्थिना तेन तत्प्रतिपन्नं, भूमिगृहस्थःस चित्रसंभूतो पाठयतिचित्रसंभूतमाता तुमंत्रिपरिचर्यां कुरुते,मंत्रीतु तस्यामेवव्यासक्तोऽभूत्, निजपत्नीव्यभिचारिचरितं चांडालेन | ज्ञातं, नमुचिमारणोपायस्तेन चिंतितः, पितुरध्यवसायस्ताभ्यां ज्ञातः, उपकारप्रीतिचरिताभ्यां स नमुचि| शितः, ततो नष्टः स क्रमेण हस्तिनागपुरे सनत्कुमारचक्रिणो मंत्री जातः. इतश्च ताभ्यां मातंगदारकाभ्यां चित्रसंभूताभ्यांरूपयौवनलावण्यनृत्यगीतकलाभिर्वाराणसीनगरोजनः प्रकामंचमत्कारंप्रापितः, अन्यदा तत्र मदनमहोत्सवो जातः, सर्वेषु लोकेषु गीतनृत्यवादित्रादिविनोदप्रवृतेषु सत्सु तो मातंगदारको वाराणसीनगर्यतः समागत्य सर्वाः स्वकलाः दर्शयितुं प्रवृत्ती, तयोर्विशेषकलाचमत्कृता लोकास्त
"0000000000000000000€
॥४२३॥
For Private And Personal Use Only