________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोक
॥४२२॥
1000000000000000000000
तृष्णःसागरचंद्रस्य मुनेः समीपे प्रत्रजितः, गुरुभिः समं विहरन्नन्यदा एकस्मिन् ग्रामे प्रविष्टः, सार्थेन सह सर्वेऽपि साधवश्चलिताः, सार्थभ्रष्टोऽसौ मुनिचंद्रोऽटव्यां पोततः, तत्र चत्वारो गोपालदारकास्तं क्षुतृषाक्रांतं पश्यंति, शुद्धैरशनादिभिः प्रतिजापति, यतिना तेषां पुरो देशना कृता, ते गोपालदारकाः प्रतिबुद्धास्तदंतिके प्रव्रज्यां गृहीतवंतः, तैः सर्वैः शुद्धा दीक्षा पालिता, द्वाभ्यां तु दीक्षा पालितैव, परं मलक्लिन्नवस्त्रादिजुगुप्सा कृता, ते चत्वारोऽपि देवलोकं गताः, तत्र जुगुप्साकारको द्वो देवलोकच्युतौ दशपुरनगरे सांडिल्यब्राह्मणस्य यशोमत्या दास्याः पुत्रत्वेनोत्पन्नो युग्मजातो बभूवतुः. अतिक्रांतबालभावो तो यौवनं प्राप्तौ, अन्यदा क्षेत्ररक्षणार्थं ताबटव्यां गतो, रात्रौ च वटपादपाधः सुप्तौ, तत्रैको दारको वटकोटरान्निर्गतेन सर्पण दष्टः, द्वितीयः सर्पोपलंभनिमित्तं भ्रमंस्तेनैव सर्पण दष्टः, | ततो द्वावपि मृतौ कालिंजरपर्वते मृगीकुक्षौ समुत्पन्नौ युग्मजातो मृगौ जाती, कालक्रमेण तौ द्वौ मात्रा समभ्रमंती एकेन व्याधेनैकशरेणेव हतौमृतो, ततस्तौ द्वावपि गंगातीरे एकस्या राजहंस्याः कुक्षौ समुत्पन्नौ, जातौ क्रमेण हंसो, मात्रा समं भ्रमंतावेकेन मत्स्यबंधकेन गृहीतौ मारितौ च. ततो वाराणस्यां
1000000000000000000000
॥४२२॥
For Private And Personal Use Only