________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोक
॥४१९॥
000000000000000000000
यमयोगः शांतिः, संयमस्य सप्तदशभेदस्य योगः संबंधः स शांतिः, सर्वजीवानामुपद्रवनिवारकत्वात्. अनेन होमेनाहं तपोऽग्निं जुहोमि. कथंभूतेन होमेन? ऋषीणां प्रशस्तेन, मुनीनां योग्येन, साधवो ह्येतादृशं यज्ञं कुर्वति, न अपरे एतादृशं यज्ञं कर्तुं समर्था भवंति. ॥४४॥ यज्ञस्वरूपं तु साधुनोक्तं, अथ ब्राह्मणाः स्नानस्वरूपं पृच्छंति
॥मूलम् ॥–के ते हरए के य ते सतितित्थे । कहिंसि हाओ य रयं जहासि ॥ आयक्ष णो संजय जक्वपूइया । इच्छामु नाउं भवओ सगासे ॥४५॥ व्याख्या-हे ऋषे यक्षप्रजित! त्वं नोऽस्मान् आचक्ष्व बहि? वयं भवतः सकाशाद् ज्ञातुमिच्छामः, हे मुने! ते तव को हृदः? कः स्ना. | नकरणयोग्यजलाधारः? किं पुनस्तव शांतितीर्थ? शांत्यै पापशांतिनिमित्ततीर्थ शांतितीर्थं पुण्यक्षेत्र यस्मिन् तीर्थे दानादिबीजमुतं पातकशमनं पुण्योपार्जकं च स्यात्, कुरुक्षेत्रादिसदृशं किं तीर्थं वतते? पुनहें मुने! त्वं कस्मिन् स्थाने स्नातः सन् रजःकर्ममलं जहासि त्यजसि? त्वं निर्मलो भवसि? एतत्सर्वेषां प्रश्नानामुत्तरं वदेत्यर्थः ॥४५॥ इति पृष्टे मुनिराह
30600000000000000000
॥४१९॥
For Private And Personal Use Only