________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटीक
॥४१८॥
1000000000000000000000
ज्वाल्यते ताः काः संति? च पुनः शांतिदुरितोपशमहेतुरध्ययनपद्धतिस्तव कतरा कास्ति? हे भिक्षो! त्वं कतरेणेति केन होमेन हवनविधिना ज्योतिरग्नि जुहोषि? अग्नि प्रीणयसि? षड्जीवनिकायविराधनां विना हि यज्ञो न स्यात्. हे भिक्षो! भवता षड्जीवनिकायविराधना तु पूर्व निषिद्धा. एवं ते | ब्राह्मणा मुनये यज्ञं यज्ञोपकरणसामग्री पप्रच्छुः ॥४३॥ अथ मुनिर्योग्यं यज्ञमाह
॥ मूलम् ॥-तवो जोई जीवो जोइठाणं । जोगा सुया सरीरं कारिसंगं ॥ कम्मं एहा संजम-| जोगसंती। होमं हुणामि इसिणं पसत्थं ॥४४॥ व्याख्या-भो ब्राह्मणाः! अस्माकं तपो ज्योतिः, तप एवाग्निरस्ति, कर्मेधनदाहकत्वात्. द्वादशविधं हि तपः सकलकर्मकाष्टानि प्रज्वालयति, जीवो ज्योतिःस्थानं जीवोऽग्निकुंडं, तपस आधारत्वात्. मनोवाक्काययोगास्ते शुचो दव्यों ज्ञेयाः. मनोवाकाययोगैः शुभव्यापारा घृतस्थानीयास्तपोऽग्निप्रज्वालनहेतवो वर्तते. शरीरं करीषांगं, तेनैव शरीरेण तपोऽग्निर्दीप्यते, शरीरसाहाय्येन तपः स्यादित्यर्थः, शरीरमायं खलु धर्मसाधनमित्युक्तेः. कर्माण्यधा0
॥४१८॥ इंधनानि कमेंधनानि तपोऽग्निः प्रज्वालयति, महादष्टकर्मकारिणोऽपि तपसा निर्मलाः संजाताः. सं.
3000000000000000000004
For Private And Personal Use Only