________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोक
॥४१७॥
000000000000000000000
विनाशो यस्मिन् स महाजयस्तं. कीदृशाः सुसंवृताः? इहास्मिन् मनुष्यजन्मनि जावितं, प्रस्तावादसंयमजीवितव्यं अनवकांक्षमाणाः, असंयममनीप्संत इत्यर्थः. पुनः कीदृशाः सुसंवृताः? व्युसृष्टदेहाः, विशेषेण परीषहोपसर्गसहने उत्सृष्टः कल्पितः कायो यैस्ते व्युत्पृष्टदेहाः. पुनः कीदृशाः? शुचयो निर्मलव्रताः, पुनः कीदृशाः? त्यक्तदेहाः, त्यक्तो निर्ममत्वेन परिचर्याभावेन अवगणितो देहो यैस्ते त्यक्तदेहाः, एतादृशाः साधवः खिष्टं यज्ञं कुर्वति एष एव कर्मप्रस्फेटनोपाय इत्युक्तं. ततो भवंतोऽप्येवं यजंतामिति भावः ॥ ४२ ॥ यजमानस्य कान्युपकरणानीति पुनर्ब्राह्मणाः पृच्छंतिस्म
॥ मूलम् ॥-के ते जोई के च ते जोइठाणं । का ते सुया किं च ते कारिसंगं ॥ एहा य ते | कयरा संति भिक्खू । कयरेण होमेण हुणासि जोइ ॥४३॥ व्याख्या-हे मुने! ते तव किं ज्योतिः? कोऽग्निः? च पुनस्ते तव किं ज्योतिःस्थानमग्निस्थानं? अग्निकुंडं किमस्ति ? ते तव काः पुनः शुचो घृतादिप्रक्षेपका दर्व्यः? च पुनस्ते तव करीषांगं अग्न्युद्दीपनकारणं किमस्ति? विध्याप्यमानोऽग्नियेनोद्दीप्यते संधुक्ष्यते तत्करीषांगं तव किं विद्यते? च पुनरेधाः कतराः काः समिधः? याभिरग्निःप्र
10000000000000000000
॥४१७॥
For Private And Personal Use Only