________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
RAC
॥४१६॥
1000000000000000000000
साधवो ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया आरंभान्निवर्तते इति भावः. दांताः किं कुर्वाणाः? षट्जीवकायान् असमारंभमाणा अनुपमर्दयंतः, पुनर्मूषावादं च पुनरदत्तं असेवमानाः, पुनः परिग्रहं उपकरणमूर्छा, सचित्ताचित्तद्रव्यग्रहणरक्षणात्मकं, पुनः स्त्री, तु पुनर्मानमभिमानं, पुनर्मायां परवंचनात्मिकां असेवमानाः, मानमाययोः सहकारित्वेन क्रोधलोभयोरपि त्यागो ज्ञेयः. एतान् सर्वान् पा-| पहेतून् ज्ञात्वा, पुनस्त्यक्त्वा साधवो यतनया चरंति, अतो भवद्भिरपि एवं चरितव्यमित्यर्थः.॥४१॥ अथ द्वितीयप्रश्नस्य कथं यजाम इत्यस्य उत्तरमाह
॥ मूलम् ॥-सुसंबुडा पंचहिं संवरेहिं । इह जीवियं अणवकंखमाणा ॥ वोसट्टकाया सुइ चतदेहा । महाजयं जयई जन्नसिहं ॥ ४२ ॥ व्याख्या-भो ब्राह्मणाः! पंचभिः संवरैहिंसामृषाऽदत्तमैथनपरिग्रहविरमणैः सुसंवृताः सुतरामतिशयेन संवृता आच्छादिताश्रवा निरुद्धपापागमनद्वाराः सुसंवृताः संयमिनः जन्नसिढे यज्ञश्रेष्टं यजंति कुर्वतीत्यर्थः. यज्ञेषु श्रेष्टो यज्ञश्रेष्टस्तं, अथवा श्रेष्टो यज्ञः श्रेष्टयज्ञस्तं, प्राकृतत्वात् यज्ञश्रेष्टमिति ज्ञेयं. कीदृशं श्रेष्टयज्ञं? महाजयं महान् जयः कर्मारीणां
300099999900000000906
॥४१६॥
For Private And Personal Use Only