________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ३८ ॥
989066666666666666600
www.kobatirth.org
निरुद्धाश्रवः, पुनः कीदृशः सुशिष्यः ? महाद्युतिर्महती द्युतिर्यस्य स महाद्युतिः, महातपास्तेजोलेश्यापुलाकलब्ध्यादिसहितो भवति, तादृशः सन् पंचमहात्रतानि पालयित्वा कीदृशो भवति ? ॥४७॥ तदाह॥ मूलम् ॥ स देवगंधवमणुस्स पूईए । चइन्तु देहं मलपंकपुवयं ॥ सिद्धे वा हवइ सासए । | देवे वा अप्पर महट्टिएत्तिवेमि ॥ ४८ ॥ व्याख्या-स पूर्वोक्तलक्षणसहितो मुनिर्विनयी शिष्यो देवैर्द्वादशकल्पवासिभिर्गंधर्वैर्देवगायनैस्तथा मनुष्यैः पूजितो भवति, ततश्चायुःक्षये देहं त्यक्त्वा सिद्धो भवति, कथंभूतः सिद्धः ? शाश्वतो जन्ममरणरहितः, कथंभृतं देहं ? मलपंकपूर्वकं मनुष्यशरीरं हि औदारिकं शुकरक्तजनितं भवति, तादृशं त्यक्त्वा सिद्धिभाक् स्यात्, अथवा देवो भवति, देवः कीदृशः ? अल्परतोऽल्पमविद्यमानं रतं क्रीडितं मोहनीयजनितं कर्म यस्य सोऽल्परतः, अथवाल्परजा रजोरहितः, पुनः कथंमृतो देवः ? महर्द्धिको महती ऋद्धिर्यस्य स महर्द्धिकः, ऋद्धिविकुर्वणा तया सहित इति परिसमाप्तौ एवममुना प्रकारेण वा एतद्विनयश्रुताध्यवनं ब्रवीमि गणधराद्युपदेशेन, न तु खबुद्धया ब्रवीमि ॥ ४८ ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
19909999999999999999
सटीकं
॥ ३८ ॥