________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ४१३ ॥
6060000
www.kobatirth.org
श्वपाकपुत्रं चांडालपुत्रं तं हरिकेशसाधुं पश्यत इति शेषः तमिति कं ? यस्य हरिकेशस्य साधोरे| तादृशी सर्वजनप्रसिद्धा ऋद्धिर्वर्तते, देवसाहाय्यरूपा संपद्वर्तते, कीदृशी ऋद्धिः ? महानुभागा महाननुभागोऽतिशयो यस्याः सा महानुभागा, महामाहात्म्यसहिता इत्यर्थः ॥ ३७ ॥ अथ मुनिस्तान् ब्राह्मणानुपशांतमिथ्यात्वान् दृष्ट्वा धर्मोपदेशमाह
॥ मूलम् ॥ किं माहणा जोइ समारभंता । उदएण सोहिं बहियां विमग्गह ॥ जं मग्गहा बाहिरियं विसोहिं । न तं सुदिहं कुसला वयंति ॥ ३८ ॥ व्याख्या - किमितिशब्दोऽधिक्षेपे, भो ब्राह्मणा यूयं शृणुत ? ज्योतिरग्निं समारभंतः, अग्नीनां समारंभं कुर्वतः किं ब्राह्मणा भवंति ? अपि तु न भवंति भो ब्राह्मणाः ! उदकेन शोधिं कुर्वतो बाह्यां शुद्धिं विमार्गयथ जानीथ. यागं कुर्वतः स्नानं कुर्वतश्च ब्राह्मणा न भवतीत्यर्थः यां यागस्नानादिकां बाह्यां विशुद्धिं विमार्गयथ विचारयथ, तां बाह्यां विशुद्धिं कुशला ज्ञाततत्वाः सुदृष्टं सम्यग्दृष्टं न वदंति, यत् यज्ञादावग्नीनां तेजस्कायस्थजीवानां विराधना, अथ च स्नानादौ अप्कायस्थजीवानां विराधना विशुध्ध्यर्थं विधीयते तत्तत्त्वज्ञैर्न
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटोकं
॥ ४१३ ॥