________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोकं
॥४१२॥
300000000000@@@@@@000
आत्मा यस्य स महात्मा महापुरुषः. ॥ ३५॥
॥ मूलम् ॥-तहिं य गंधोदयपुप्फवासं । दिवा तहिं वसुहारा य वुट्टा ॥ पहया उ दुंदुहिओ सुरेहिं । आगासे अहो दाणं च घुटं ॥ ३६॥ व्याख्या-तहि तस्मिन् यज्ञपाटके मुनिना आहारे गृहीते सति गंधोदकपुष्पवर्षमभूदिति शेषः, सुगंधपानीयकुसुमवर्षा आसन् इत्यर्थः. च पुनस्तस्मिन् स्थाने दिव्या प्रधाना देवैः कृता वसुधारा वृष्टा, स्वर्णदीनाराणां वृष्टिरभूत. वसु द्रव्यं तस्य धारा सततपातजनिता वसुधारा, सा वृष्टा देवैः पातिता इत्यर्थः. तु पुनराकाशे सुरैदुंदुभयः प्रहताः, देवैराकाशे वादित्राणि वादितानि, च पुनराकाशे अहोदानमहोदानमिति घुष्टं देवैः शब्दितं. ॥ ३६॥ तदा च | द्विजा विस्मिताः किमाहुस्तदाह
॥ मूलम् ॥-सक्खं खु दीसइ तवे विसेसो । न दीसइ जाइविसेसो कोइ ॥ सेवागपुत्तं हरिएससाहुं । जस्सेरिसा इढि महाणुभागा ॥ ३७॥ व्याख्या-खु इति निश्चयेन तपोविशेषः साक्षाद दृश्यते, जातिविशेषः कोऽपि न दृश्यते, तपोमाहात्म्यं दृश्यते, जातिमाहात्म्यं किमपि न दृश्यते.
30000@@@90000000000
॥४१२॥
For Private And Personal Use Only