________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटोक
॥४११॥
900000000000000000004
का वंजणसंजुयं ॥ ३४ ॥ व्याख्या-हे महाभाग! ते तव सर्वमप्यर्चयामः, ते तव सर्वमपि श्लाघयामः,
न ते तव किमपि चरणधूल्यादिकमपि यद्वयं नार्चयामः, के वयं ये त्वां नार्चयामः, त्वं तु देवानां पूजार्हः, वयं तव कां पूजां कुर्मः? एतादृशी का पूजास्ति? या तव योग्या, परंतु वयं दासभावं कुर्म इत्यर्थः. 'सालिमं' इति शालिमयं सम्यग्जातिशुद्धं शालिनिष्पन्नं कूरं तंडुलभोज्यं भुंजाहि मुंश्व? कथंभूतं कूरं? नानाव्यंजनसंयुतं, बहुविधैव्यंजनैर्दध्यादिभिः सहितं. ॥ ३४ ॥
॥ मूलम् ॥-इमं च मे अस्थि पभूयमन्नं । तं भुंजसू अम्ह अणुग्गहहा ॥ बाढं से पडिच्छइ भत्तपाणं । मासस्त पारणए महप्पा ॥ ३५॥ व्याख्या-हे स्वामिन् ! मे मम इदं प्रत्यक्षं खंडमंडकादिकं अन्नं प्रभूतं वर्तते, प्रचुरं वर्तते, पूर्वमपि शालिमयं कूरग्रहणं कृतं, अत्र च पुनरन्नग्रहणं तत्सर्वानप्राधान्यख्यापनार्थ, तद्भोज्यं भुंक्ष्वास्माकमनुग्रहार्थ लाभार्थ, इति ब्राह्मणैः प्रोक्ते सति मुनिः प्राहबाढं इत्युक्त्वा, तथास्तु, बाढंशब्दोंगीकारे, एवमेव करोमि, गृहीष्यामोत्युक्त्वा साधुर्मासस्य पारणके भक्तपानमाहारपानीयं प्रतीच्छत्यंगीकरोति. कथंभृतः स मुनिः? महात्मा, महान् निर्मलो निःकषाय
1000000000000000000000
On४११॥
For Private And Personal Use Only