________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा૫ ૪૦૮
900990
www.kobatirth.org
नंतरं स ब्राह्मण ऋषिं प्रसादयति, कोदृशः स ब्राह्मणः ? सभार्यः पत्नीसहितः सह भार्यया भद्रया वर्तत इति सभार्यः कथं प्रसादयति ? तदाह - हे भदंत पूज्य ! हीलामस्मत्कृतमपमानं, च पुननिंदां, अस्माभिर्भवतां निंदा कृता, तां निंदां यूयं क्षमध्वं ? कीदृशो ब्राह्मणः ? विमना विदूनमनाः, पुनः कीदृश: ? विखिन्नो विशेषेण दोनः किं कृत्वा ? तान् खंडिकान् छात्रान् काष्टभृतान् काष्ट सहशान्निचेष्टितान् दृष्ट्वा, पूनः कीदृशान् तान् ? अवहेठितपृष्टसदुत्तमांगान्, अवहेठितानि पृष्टंयावत् नामितानि पृष्टिं गत्वा लग्नानि संति शोभनान्युत्तमांगानि मस्तकानि येषां ते अवहेठितष्टष्टसदुत्त मांगास्तान् पश्चाद्धमपृष्टदेशसंलग्नमस्तकान् पुनः कीदृशान् ? प्रसारितबाह्वकर्मचेष्टान्, प्रसारिताः प्रलंवीकृता बाहवो यैस्ते प्रसारितबाहवः, न विद्यते कर्मणि अग्निविषये इंधनघृतादिनिक्षेपणे चेष्टा | सामर्थ्य येषां ते अकर्मचेष्टाः, प्रसारितबाहवश्च ते अकर्मचेष्टाश्च प्रसारितवाह्वकर्मचेष्टास्तान्, बाहुप्रसारणत्वेन दूरे पतितेंधनदव कानित्यर्थः पुनः कीदृशान् ? निर्भेरिताक्षान्, निर्भरितानि प्रसारितानि अक्षीणि यैस्ते निर्भरिताक्षास्तान्, तरलितनेत्रान् पुनस्तान् किं कुर्वतः ? रुधिरं वमतो. मुखाद्रक्तं
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
60000000006046900666
सटीकं
॥૨૮॥