________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ४०६ ॥
100000
160694
www.kobatirth.org
हि यस्मिन् यज्ञपाटके ते इति तान् भग्नदेहान् दृष्ट्वा भद्रा भूयः पुनरपि वचनं प्राहुरित्याह ब्रूते, प्राकृतत्वाद्वचनव्यत्ययः तान् किं कुर्वतः ? रुधिरं वमंत इति ॥ २५ ॥
॥ मूलम् ॥ गिरिं नहिं खणह । अयं दंतेहिं खायह । जायवेयं पाएहिं हणह । जे भिक्खु अवमन्नह ॥ २६ ॥ व्याख्या - अरे वराका इत्यध्याहारः, यूयं नखैः कररुहैर्गिरिं पर्वतं खनथ इत्र, इवशब्दस्य सर्वत्र ग्रहणं कर्तव्यं पुनर्दतैरयो लोहं खादथ भक्षयथ इव, पुनर्जातवेदसमग्निं पादैर्हथ इव, अग्निं चरणैः स्पर्शथ इव, ये यूयं भिक्षु साधुमवमन्यथ, अस्य भिक्षोरपमानं कुरुथ. गिरिलोहानीनामुपमानमनर्थ फल हेतुत्वादुक्तं ॥ २६ ॥
॥ मूलम् ॥ - आसीविसो उग्गतवो महेसी । घोरवओ घोरपरक्कमो य ॥ अगणिव पक्खंदपयंगसेणा । जे भिक्खु भत्तकाले वह ॥ २७ ॥ व्याख्या - भो मूर्खा इति अध्याहारः, एवस्तपस्वी आशीविषः शापदाने समर्थः, आशीविषः सर्प उच्यते, यथा सर्पः पादादिना अवमन्यमानो मारणाय स्यात्, तथा अयमपि शापविषेण मारयति, पुनरयमुग्रतापा महर्षिः, पुनरसौ घोरत्रतः, पुनधोंरपरा
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
999999999999999999999
सटोकं
॥ ४०६ ॥