________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyarmandie
उत्तरा
सटोक
॥४०५॥
00000000000000000000
नायायोग्यं स्तवनाहमित्यर्थः, एष भे इति भवतो युष्मान् सर्वान्मानिर्धाक्षीन्न भस्मसात्कुर्वीत, इति यदा नृपपुत्र्योक्तं, तदा यक्षः किमकार्षीदित्याह
॥ मूलम् ॥-एयाइं तीसे वयणाइ सुच्चा । पत्तीइ भदाइ सुभासियाई ॥ इसिस्स वेयावडियट्टयाए । जक्खा कुमारे विणिवारयति ॥२४॥ व्याख्या-यक्षाः परिवारसहिता ऋयावृत्त्यर्थं कुमारान् ब्राह्मणवालकान विशेषेण निवारयंति, किं कृत्वा? तस्याः सोमदेवस्य यज्ञाधिपस्य पुरोहितस्य पत्न्या भद्राया वचनानि श्रुत्वा, कीदृशानि वचनानि? सुभाषितानि सुष्टु भाषितानि, ब्राह्मणेभ्यः शिक्षारूपाणि प्रकाशितानि. ॥२४॥
॥ मूलम् ॥ ते घोररूवा ठिइयंतरिक्खे । अयुग्गा तहिं तं जग तालयंति ॥ ते भिन्नदेहे रुहिरं वमंते । पासित्तु भदा इणमाह भुजो ॥ २५॥ व्याख्या-ते यक्षास्तदा तस्मिन् काले तान् जनांस्तान् ब्राह्मणांस्ताडयंति चपेटादिभिन्नति, की शास्ते यक्षाः? घोररूपाः, पुनः कोशास्ते? अंतरिक्षे आकाशे स्थिताः, पुनः कीदृशास्ते? अत्युग्रा अत्युग्रपरिणामयुक्ताः. उत्प्रेक्षतेऽसुरा इवेत्यर्थः. ते |
090000000000000000006
॥४०५॥
For Private And Personal Use Only