________________
Shri Mahavir Jain Aradhana Kendra
www kobirth.org
Acharya Shri Kailassagersuri Gyarmandie
उत्तरा
सटीक
॥४०३॥
000-660000000000
॥ मूलम् ॥-रण्णो तहिं कोसलियस्स धूआ। भद्दत्ति नामेण अणिदियंगी ॥ तं पासिया संजय हस्तमाणं । कुद्धे कुमारे परिनिववेइ ॥ २० ॥ व्याख्या-तत्र कोशलिकस्य राज्ञः 'धूआ' इति सुता भद्रा वर्तते, सा भद्रा तं साधुं तैर्ब्राह्मणकुमारैर्हस्यमानं दृष्ट्वा क्रुद्धान् मारणोधतान् कुमारान् ब्राह्मणबालान् परिनिर्वापयति, वचनैरुपशमयतीत्यर्थः. कीदृशं तं साधुं? संयतं संयमावस्थायां स्थितं, कीदृशी सा भद्रा? अनिंदितांगी, अनिंदितमंगं यस्याः साऽनिंदितांगी शोभनशरीरा. ॥ २०॥
॥ मूलम् ॥-देवाभिओगेण निओइएणं । दिन्ना पुरन्ना मनसा न झाया ॥ नरिंददेविंदभिवंदिएणं । जेणाहि वंता इसिणा स एसो ॥ २१ ॥ व्याख्या-सा भद्रा किमवादीत्तदाह-भो ब्राह्मणाः! | एष स ऋषिर्वर्तते, येनर्षिणाहं वाताहं त्यक्तास्मि, कथंभृतेनर्षिणा ? नरेन्द्रदेवेन्द्राभिवंदितेन, कीदृश्यहं ? राज्ञा पुरा दत्तास्मै अर्पिता, अनेनर्षिणाहं राज्ञा पुरा दीयमानापि मनसापि न ध्याता नाभिलषिता, कीदृशेन राज्ञा? देवाभियोगेन नियोजितेन, देवस्य यक्षस्याभियोगो बलात्कारो देवाभियोगस्तेन यक्षदेवहठेन नियोजितेन प्रेरितेनेत्यर्थः. एतादृशोऽयं त्यागी मुनिरस्ति, तस्माद्भवद्भिर्न कदर्थः, इति
300000000000000000004
॥४०३१
For Private And Personal Use Only