________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥४०२॥
00000000000000000000
॥ मुलम् ॥–के इत्थ खत्ता उवजोइया वा । अज्झावया वा सह खंडिएहिं ॥ एयं तु दंडेण फलेण हता। कंटमि घिनण खलिज तो णं ॥ १८॥ व्याख्या-केचिदत्रास्मिन् यज्ञपाटके क्षत्राः क्षत्रिया उपज्योतिषः, अग्नेरुप समीपेऽग्निसमीपवर्तिनः पाकस्थानस्थाः, वाथवाध्यापका वेदपाठकाः संतीत्यध्याहारः, कथंभूताः पाठकाः? खंडितेश्छात्रैः सहिताः, ये एनं मुंडं दंडेन वंशयष्ट्या फलेन बि- 1 ल्वादिना हत्वा, कंठं गृहीत्वा गलहस्तं दत्वा स्खलयेयुः, इतो यज्ञपाटकान्निष्कासयेयुः, तो इत्युक्तं तत्प्राकृतत्वात्, ये इति वक्तव्यं, प्राकृतत्वाद्वचनव्यत्ययः. ॥ १८॥
॥मूलम् ॥-अज्झावयाणं वयणं सुणित्ता। उद्धाइया तत्थ बहुकुमारा ॥ दंडेहिं वेतेहिं कसेहिं चेव । समागया तं इसिं ताडयंति॥१९॥ व्याख्या-तत्र तस्मिन् यज्ञपाट के बहवः कुमारास्तरुणाश्छात्रा उद्धाविताःसंतो दंडेवंशयष्टिभित्रैर्जलवंशैः कसैश्चर्मदवरकैस्तमृषि ताडयंति, कीदृशास्ते कुमाराः?समागताः संमील्यैकीभूयागताः, अहो क्रीडनकं समागतमिति वदंतो यष्ट्यादि सर्वं गृहीत्वा समागता इत्यर्थः. तं मुनि ताडयंति, किं कृत्वा ? उपाध्यायानां वचनं श्रुत्वा. ॥ १९ ॥
00000000@@ee@90000000
॥४०२॥
For Private And Personal Use Only