________________
Shri Mahavir Jain Aradhana Kendra
Acharya Sh Kalassagersuri Gyarmandie
उत्तरा
सटोक
॥४०॥
0000000000000000000006
स्माकं सकाशेऽस्माकं प्रत्यक्ष प्रभाषसे, प्रकर्षेण यथा तथा भाषसे संबद्धं वचनं ब्रूषे, तस्मादरे एतदन्नपानं विनश्यतु, एतदाहारं सटतु पतत्वप्येतदाहारं तुभ्यमुपाध्यायप्रतिकूलवादिने न दद्मः. ॥१६॥ तदा यक्ष आह
॥ मूलम् ॥-समिइहिं मझं सुसमाहियस्स । गुत्तिहिं गुत्तस्स जिइंदियस्स ॥ जइ मे न दाइजइ एसणिज । किमज जन्नाण लभित्थ लाभं ॥ १७॥ व्याख्या-यदि मे ममेहास्मिन् यज्ञपाटके शुद्धमेषणीयमाहारमस्मिन्नवसरे न दास्यथ, तदा यज्ञानां लाभं पुण्यप्राप्तिरूपं फलं किं लप्स्यथ? अपि तु न किमपीत्यर्थः. पात्रदानं विना किमपि न फलमित्यर्थः. कथंभूतस्य मम? तिमृभिगुप्तिभिर्गुप्तस्य, पुनः कीदृशस्य मम? पंचभिःसमितिभिः सु अत्यंतं समाहितस्य युक्तस्य, पुनः कीदृशस्य मम? जितेंद्रियस्य, जितानींद्रियाणि येन स जितेंद्रियस्तस्य, अत्र चतुर्थीस्थाने षष्टी, एतादृशाय पात्राय मह्यं येन यूयं प्रासुकमाहारं न दास्यथ तदा भवतां सर्वमपि वृथा, फलस्याभावात्. ॥१७॥ अथोपाध्याय आह
2000000000000000000000
oiln४०१॥
For Private And Personal Use Only