________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥३९७॥
000000000000000000004
दलाहि मज्झं । आराहए पुन्नमिणं खु खेत्तं ॥ १२ ॥ व्याख्या-एतया अनया उपमया श्रद्धया भावनया मह्यं ददचं? खु इति निश्चयेन इदं मल्लक्षणं पुण्यं शुभं क्षेत्रमाराधयत? एतया इति कया उपमया? तामुपमामाह-कर्षकाः क्षेत्रीकारका नरा आशंसया विचारणया काले वर्षाकाले
स्थलेषु उच्चप्रदेशेषु, तथैव निम्नेषु निम्नभूमिप्रदेशेषु बीजानि वपंति. कोऽर्थः? वर्षाकाले क्षेत्रीकाBारका बीजं वपंत एवं चिंतयंति, यदि प्रचुरा वर्षा भविष्यति, तदा स्थलेसु फलावाप्तिर्भविष्यति,
यदि चाल्पा वर्षा भविष्यंति, तदा निम्नप्रदेशेषु फलावाप्तिर्भविष्यति. उभयत्रोच्चनीचप्रदेशेषु बीजं वपति, न पुनरेकत्रैव बीजं वपति. यदि यूयं ब्राह्मणा निम्नभूमिसदृशास्तदाहं स्थलभूमिसदृशो गण्यः मह्यमपि दातव्यं, न केवलं यूयमेव क्षेत्रप्रायाः, किंत्वहमपि पुण्यक्षेत्रमस्मीति भावः ॥ १२ ॥ इति श्रुत्वा ते ब्राह्मणास्तं प्रत्यूचुस्तदाह
॥ मूलम् ॥-खित्ताणि अम्हं विइयाणि लोए । जहिं पकिन्ना विरुहंति पुन्ना ॥ जे माहणा जाइविजोववेया। ताई सुखित्ताइ सुपेसलाइ ॥ १३ ॥ व्याख्या-अरे पाखंडपाश! तानि क्षेत्राण्यस्मा
3000000000000000000000
For Private And Personal Use Only