________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥३९६॥
PO0s0000000000000
करणीया, अयं तपस्वी आहारार्थमागतोऽस्ति, अयमपि शेषावशेषमाहारं प्राप्नोतु, इति विचार्य मह्यं शुद्धमाहारं दीयतामिति यक्षेणोक्ते सति ते ब्राह्मणाः किं प्राहुरित्याह-॥१०॥
मूलम्॥-उवक्खडं भोयणमाहणाणं । अत्तहियं सिद्धमहेगपक्खं ॥ न उ वयं एरिसमन्नपाणं । दीहामु तुम्भं किमिहं ठिओसि ॥११॥ व्याख्या-रे भिक्षो! इहास्मिन् यज्ञपाटके भोजनं यदुपस्कृतं घृतहिंग्वाधान्यकमिरचलवणजीरकादिभिः कृतोपस्कारं शाकादि, पुनरिह सिद्धं चतुर्विधाहारं राद्धं वर्तते. एकः पक्षो ब्राह्मणो यस्य तत् एकपक्षं, एतदाहारं शूद्रेभ्यो न देयमस्ति, ब्राह्मणानां वर्तते, पुनरिदमाहारमात्मार्थिकं, आत्मार्थे भवमात्मार्थिकं, ब्राह्मणैरप्यात्मनैव भोज्यं, न त्वन्यस्मै कस्मैचिद्देयमित्यर्थः. तु इति तेन हेतुना वयमेतादृशं ब्राह्मणभोज्यमन्नपानं तुभ्यं न दास्यामः. इह त्वं किं स्थितोऽसि? अस्माकं धर्मशास्त्रे उक्तमस्ति-न शूद्राय मतिं दद्या-नोच्छिष्टं न हविःकृतं ॥ न चास्योपदिशेद्धर्म । न चास्य व्रतमादिशेत ॥१॥११॥ तदा यक्षः पुनरवादीत
॥ मूलम् ॥-थलेसु बीयाई ववंति कासया। तहेव निन्नेसु य आससाए ॥ एयाइ सद्धाइ
000000000000000000000
॥३९६॥
For Private And Personal Use Only