________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥३९४॥
000000000000000000000
वक्ष्यमाणानि वचनान्युदाहार्षीदवोचदित्यर्थः. किं कृत्वा? निजकं शरीरं प्रच्छाद्य, स्वशरीरं प्रच्छन्नं विधाय, साधुशरीरे प्रवेशं कृत्वा, कथंभूतः स यक्षः? तस्य मुनेरनुकंपकः, अनुरूपं कंपते चेष्टते इ. त्यनुकंपकः, साधोः सेवक इत्यर्थः. तिंदुकवनमध्ये एको महान् तिंदुकवृक्षोऽस्ति, तस्य वृक्षस्याधस्तस्य चैत्यमस्ति, तत्र साधुः कायोत्सर्गेण तिष्टति, तस्य साधोर्धर्मानुष्ठानं दृष्ट्वा गुणरागी सेवकः संजातोऽस्तोति भावः. स यक्ष इत्यवादीत् ॥८॥ | ॥मुलम् ॥-समणो अहं संजय बंभयारी । विरओ अहं धणपयणपरिग्गहाओ ॥ परपवत्तस्स उ भिक्खकाले । अन्नस्स अट्ठा इहमागओमि ॥ ९॥ व्याख्या-स यक्षः किमवोचत्? तदाह-भो ब्राह्मणाः! भवद्भिरुक्तं कोऽसि रे त्वं? तस्योत्तरं-अहं श्रमणोऽस्मि, श्राम्यति तपसि श्रमं करोतीति
श्रमणस्तपस्वी. पुनरहं संयतः सावद्यव्यापारेभ्यो निवर्तितः. पुनरहं ब्रह्मचारी, ब्रह्मणि भौगत्यागे चव रति रमते इत्येवंशीलो ब्रह्मचारी. पुनरहं धनपचनपरिग्रहाद्विरतः, तत्र धनं गोमहिष्य श्वादिचतुःप
दरूपं, पचनमाहारादिपाकः, परिग्रहो गणिमधरिममेय्यपरिच्छेद्यादिद्रव्यरूपः. कया आशया इहाग
3000000000000000000
॥३९४॥
For Private And Personal Use Only